Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 87
________________ Ke कौटिल्यवन्दनम् Jain Education International [ पञ्चनिमिषपर्यन्तं मृदङ्गध्वनिः, तदनन्तरं नेपथ्ये ] सदयहृदया: सहृदया: ! स्वागतं वः । भवतां सर्वेषां विदितचरमेव यद् विश्वस्य महतां ) चिन्तनाचारुचेतोवतां समाजे निरतिशयां प्रख्यातिमुपगतः, अनल्पाभिः कल्पनाभिः प्राज्यस्य राष्ट्रदौर्भाग्यदूरीकरणशस्त्रस्य राज्यशास्त्रस्य निर्माता निखिलजनपदसौभाग्यकर्मनिर्माणधर्मा कण्टकमूलोच्छेत्ता कौशल्यवत्स्वान्तस्तत्रभवान् कौटिल्य इति । एतच्च प्रसिद्धं यत् कौटिल्यो राजकीयेषु व्यवहारेषु सुतराम् उदासीन एवासीत् । परन्तु न्याय्येन मार्गेण राज्यमलभमानस्य चन्द्रगुप्तस्य विज्ञप्तिमनुलक्ष्य तस्मै राज्यदापनं प्रतिजज्ञे । राज्यदापनानन्तरं न तस्य कर्तव्यभारः समाप्तः । तस्मात् सः मलयकेतोराश्रयं प्राप्य चन्द्रगुप्तपराभवाय प्रयतमानम् अमात्यराक्षसं कथञ्चित् कुसुमपुरम् आनाय्य तं चन्द्रगुप्तमन्त्रिणं कर्तुमीहते, तत्र विविधानि तन्त्राणि प्रयुङ्क्ते, सफलश्च भविष्यति । कौटिल्य: स्वनिर्मितेषु राज्यतन्त्रेषु साफल्यवैफल्ये स्पष्टमेव ज्ञातुकामः सन् विविधाभिः दिशाभिः अनेकैश्च जनैः तस्य द्रढिम्ने प्रयतते । अर्थशास्त्राध्ययनेनेदं स्पष्टीभवति यत् कौटिल्यः सर्वत्र गूढचराणां व्यूहमेव निर्मापयामास । नर्तकीनामपि तत्र भागग्रहणं वर्तते । नर्तकीभिः जनपदानां व्यवहारः सूक्ष्मेक्षिकया परीक्षणीय इति, ज्ञातेषु केषुचिदपि विशेषेषु अधिकारिणो ज्ञापनीया इति कौटिल्यः सूचयति । अमुमंशं मनसि निधाय नृत्यनाटकमिदं रचितम् । अत्र कर्णाटकसंगीते प्रसिद्धा एव रागाः तालगतयश्च समुपात्ताः । कन्नडभाषायाश्छन्दोगतिरपि द्वित्रस्थलेषु आदात्तः। अत्र साफल्यवैफल्ययोः सहृदया एव प्रमाणं भवितुमर्हन्ति । ७४ एस्. जगन्नाथः 2925, Saraswathipuram. 1st main, 5th cross. Mysore -570009 Phone : 541687 For Private & Personal Use Only 86 6€ www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154