Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अथ कविः ‘सुवर्णमुद्रा एव ग्रहीतव्या' इति विचिन्त्य तद्ग्रहणे प्रवृत्तोऽभवत् । पञ्चदशनिमेषा व्यतीताः । पश्चाद् यावत् स्यूतमुद्वोढुं स प्रयत्नं कृतवान् न किन्तु / तत्राऽतिभारात् स सफलोऽभवत् । तथाऽपि लोभाविष्टः स तस्मात् स्यूतात् कतिचित् सुवर्णमुद्रा न्यूनाः कर्तुं न सज्जोऽभवत् । किन्तु – “सर्वा अपि मुद्रा निष्कास्यहीरकाण्येव ग्रहीतव्यानि । तानि तु यदि स्वल्पान्यपि भविष्यन्ति तथाऽपि बहुमूल्यानि भविष्यन्ति" इति विचिन्त्य हीरकाणि तेन भृतानि । पुनश्च लोभेन तेन स्यूत आकण्ठं भृतः । अतः पुनरपि तद्भारवहनेऽसमर्थः स समभवत् । एवमेव चाऽर्धघण्टासमयो व्यतीतः ।
तदनु विचारपरिवर्तनात् तानि निष्कास्य रौप्यमुद्रास्तत्र भृतास्तेन । पुनश्च तथैव / सञ्जातः । एवं तावत् खिन्नः सन् स व्यचारयत् यद्-'यदि ग्रहीतव्यमेव तर्हि कथं - सुवर्णमेव न गृह्णीयाम् ?' इति । किन्तु लोभस्तस्य कटीं नाऽमुञ्चत् । अतो वारं वारं स निष्फल एव भवति ।
एवमेव च झटिति समयो व्यतीतः । पञ्चनिमेषा एवाऽवशिष्टाऽधुना । तथाऽपि न तस्य मनःस्थितौ परिवर्तनं जातम् । अनेकशो निष्फलता प्राप्तोऽपि जनो न स्वलोभावेशं त्यक्तुं शक्नोति । एवं च पुनः सोऽचिन्तयत्- "यदि नाम रत्नानि न हि ग्रहीष्यामि तर्हि लोका मां मूर्ख मंस्यन्ते । अतः सर्वमन्यद् विमुच्य रत्नान्येव । गृह्णीयाम्" इति । एवं यावत् सुवर्णमुद्राः सन्त्यज्य रत्नानि ग्रहीतुमुद्युक्त: सोऽभवत् तावत् द्वादशवादनसूचका घण्टा वादिता । तदैव च प्रधानोऽवक्-"कविवर ! समयः समाप्तोऽधुना । भवान् तु यथागतो रिक्त एव स्थितोऽधुनाऽपि, यन्न किञ्चिदपि भवता गृहीतम् । सम्प्रति बहिरागच्छतु" इति । अनेन च खिन्नेन तेन कविना स्यूतस्तत्रैव विदारितः।
१०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154