Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 127
________________ सेवने सर्वदा साक्षिणी अहमस्मि । तथा मया सहैव भवता मदङ्गेष्वेव चैतत् सेवनं कृतमस्ति । एतादृश्यपि अहं सत्यप्रियायास्तस्या नद्याः पुरतोऽसत्यमादेशं भवद्वचनेन भणन्ती कस्य हसनीया न भवेयम् ? श्रुत्वैत् राज्ञा सा भुजयोर्गृहीत्वा पुनः साग्रहं समादिष्टा बहुभणितेन कृतं देवि ! । केवलमेकवारमेव त्वं मदुक्तं कुरु । तदनु यद् भविष्यति तद् द्रक्ष्यामः । एतन्निशम्य राज्ञी तदुक्तं चित्तेऽश्रद्दधत्यपि राज्ञ उपरोधेन शिबिकामारुह्य नदीसमीपं गतवती । तत्र च तटद्वयप्ररूढान् वृक्षान् उत्खनितुं दक्षामभ्रंलिहलहरीभृतां मत्स्यकच्छपादिजलचरकुलसङ्कुलां नदीं दृष्ट्वा देव्या भणितं - भगवति ! यदि मद्देवरदीक्षाग्रहणप्रभृति मे भत्रा विषयप्रसङ्गो न कृतस्तर्हि मे मार्गं प्रयच्छ । एतद्भणनसमनन्तरमेव पश्यन्त्या एव तस्या नदीमध्ये विवररूपेण मार्गः सञ्जातः । एतेनाऽतीव विस्मयापन्ना सा तेनैव मार्गेण गत्वा यावदुद्यानपार्श्वं प्राप्ता तावन्नदी पूर्ववदेव जलपूर्णा सञ्जाता । एतद्दृष्टवा पुनरप्यारश्चर्यचकिता सा मुनिसमीपं गत्वा वन्दित्वा च नद्युत्तरणनिमित्तं नृपवचनादिवृत्तान्तं तं कथितवती । तदा मुनिरपि तस्याः प्रतिबोधादिगुणं विचिन्त्य साधूनामनुचितमपि तां कथितवान् - देवि ! पुनरपि भवती नदीं गत्वा एवं वदतु यद् - व्रतग्रहणानन्तरमद्यपर्यन्तमपि यदि मम देवरेण भोजनं न कृतं तदा हे भगवति ! त्वं विरम्य मे मार्गं देहि अन्यथा नेति । एतच्छ्रुत्वा विस्मयान्विताऽपि सा नगरं प्रतिनिवर्तमाना नदीं प्राप्य तन्मुनिवचनं कथितवती । तदानीमपि नद्या मार्गे दत्ते चित्ते चित्रिता सा क्रमेण गृहं प्राप्ता । ततो भोजनादि निवर्त्य नृपतिं तत् सर्वमपि वृत्तं कथितवती जयावली । पृष्टवती च प्रभो ! द्वयोरपि युवयोरत्यद्भुतस्य चरितस्याऽस्य रहस्यं किम् ? राजोवाच देवि ! श्वो मुनिभगवन्तं गमिष्याम आवाम् । स एव ते संशयोच्छेदं करिष्यति । तत् स्वीकृत्य कथं कथमपि तद्दिनं व्यतीतवती सा । अन्यस्मिन् दिने गतौ द्वावपि मुनिं वन्दितुमद्याने । ततो मुनिं वन्दित्वा जयावली पृच्छति स्म - भगवन् ! युवयोर्द्वयोरपि चरितमिन्द्रजालमिवाऽत्यन्तमाश्चर्यकारि । यथा - आर्यपुत्रेण Jain Education International - ११४ 1 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154