Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 131
________________ अहंकारः -सा. रत्नचूलाश्रीः स्वामिना विवेकानन्देन सह तस्य शिष्याः भोक्तुमुपविष्टाः । एकस्य शिष्यस्य एष नियम आसीत् यत् कोऽपि भोजनकाले कमपि प्रश्न कुर्यात् । तहि यावत् स तस्योत्तरं न दद्यात् तावत् भोजनं न ग्रहीतव्यम् । नैकशिष्याणां मध्ये केनचित् पप्रच्छे नरके कः नयति? प्रश्नस्य प्रत्युत्तरे तेन शिष्येण गदितं - नरकस्य एकं द्वारमेवास्ति, तत् तु नारी । यदुक्तम्_ 'प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ' । यः कामभोगेषु मग्नो भवति सोऽपवित्रे नरके गच्छति - इत्यादिका अनेकाः सूक्तीः सोऽश्रावयत् किन्तु प्रश्नस्योचित उत्तरो न प्राप्तः । अन्ते स्वामिना पृष्टम् क एनं प्रश्नं करोति ? प्रश्नकर्ता उक्तवान्- अहम् । तदुपरि स्वामिना भाषितं- एष 'अहम्' एव सर्वान् नरकं नयति । अहङ्कार एव नरकस्य मुख्यं द्वारम् इति ।। ११८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154