Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मार्कट्वेइन-इत्यस्य भाषणमायोजितमेकस्मिन् लघुग्रामे । मार्कट्वेइनः तद्ग्रामं गत्वा नापितस्य पार्श्वे गतवान्। 'भवानस्मिन् ग्रामेऽनभिज्ञ इव प्रतिभाति खलु?'-केशकर्तनं कुर्वन् सन् नापितः पृष्टवान् । 'आम् । अद्यैवाऽऽगतोऽस्मि ।' 'अद्य भवानागत इति शोभनं कृतम् । अद्य तु ग्रामे मार्कट्वेइन-इत्यस्य भाषणमायोजितमस्ति । भवानपि लाभान्वितो भविष्यति ।' 'ओह् ! अत्युत्तमम् ।'-ट्वेइनमहोदयो गाम्भीर्येणोक्तवान् । 'किन्तु भवता मूल्यपत्रिका(TICKET)क्रीता खलु ?' 'नैव!' 'मूल्यपत्रिकास्तु सर्वा अपि विक्रीताः सन्ति । भवता उत्थातव्यं भवेत् !' 'मम भाग्यं त्वेवमेवाऽस्ति । यदाऽपि स जनो भाषणं करोति तदा मया तूत्थातव्यमेव भवति ।'
- मुनिकल्याणकीर्तिविजयः म अथैकदा हस्तिनामन्येषां च विविधकीटकानां मध्ये पादकन्दुक
(football)स्पर्धाऽभवत् । स्पर्धारम्भ एव हस्तिभिः शीघ्रतया क्रीडद्भिः षड् अङ्का (Goals) प्राप्ताः । एतावता कीटकपक्षतः शतपदी (Centipede) खेलायां प्रवृत्तवती । तया तु शीघ्रमेव
बहून् अङ्कान् कृत्वा हस्तिभ्यः पराजयो दत्तः । स्पर्धानन्तरं केनचित्
पत्रकार-प्राणिना शतपदी पृष्टा - भोः ! त्वमियत् शोभनं म . क्रीडसि तदा स्पर्धारम्भ एव किमिति नाऽऽगता क्रीडितुम् ? LD ।
तयोक्तं-तदानीं त्वहं पादत्रधारणे व्यापृताऽऽसम् ।
१२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154