Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 139
________________ - मर्म-नम -मुनिरत्नकीर्तिविजयः दूरवाणी-द्वारा बहुकालं यावत् वार्तालापं कृतवन्तौ द्वौ सुहृदौ। सहसैवैकोऽपरस्मै पृष्टवान्- भो! भवान् कुतो वदति ? स उक्तवान्- मुखात् । بلوفهد रासिनीनामकः कश्चन महान् संगीतज्ञ आसीत् । यदा स जीवन् आसीत् तदैव तस्य प्रशंसकैः तस्य मूर्ति स्थापयितुं निश्चयः कृतः । तदर्थं च धनराशिरप्येकत्रीकृता।। वृत्तान्तमेनं रासिनी ज्ञातवान् । स कस्मैचिदपृच्छत् - एतस्मिन् कार्ये कियान् व्ययो भविष्यति? एककोटिफ्रान्कमितः- उत्तरं प्राप्तवान् सः । रासिनी उक्तवान् - एतस्माद् राशेरधु मह्यं ददातु । मूर्तेः स्थानेऽहं स्वयमेवोपस्थास्यामि । १२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154