Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 128
________________ हि मत्प्रत्यक्षं कृताऽपि विषयसेवाऽपलपिता सा च नद्याऽप्यकृतेति सम्मता, तथा तया मार्गोऽपि प्रदत्तः । तथा धृत-शालि-मोदक-मण्डकादिभोजनं मया स्वहस्तेनैव भवते प्रतिलाभितं, तच्च भवता किमन्यस्मै दत्तम् ? अथवेयन्तं कालं भवानाहारेण विना देहं कथं नियूंढवान् ? ततश्च कृतमपि भोजनमपलपन् भवानपि साहसिक एव । तथाऽपि नदीदेव्या तदकृतमिति प्रतिपद्य मे मार्गः प्रदत्तः । अतो नद्यपि भवतोईयोरपि सदृश्येव संघटिताऽस्ति । यतः सा भवद्भ्यां कृतमकृततया प्रतिपादितमपि बहुमन्यते । ततः किरहस्यकमस्य वस्तुतत्त्वमिति जिज्ञासा भृशं बाधते माम् । तदा विजयवर्ममुनिना सस्मितं कथितं-भाग्यवति ! यद्यत्र तव महत्कौतुकं तर्हि शृणु । मम व्रतग्रहणानन्तरं सर्वदा राजा एवं चिन्तयन्नासीत् यथा - कदा स दिवस उदेष्यति यदाऽहं सर्वसङ्गान् परिहृत्य गुरुपदमूले प्रव्रज्यां प्रतिपत्स्ये ? कमलपुष्पात् मधुरं मकरन्दसन्दोहमिव मधुकरः कदाऽहं द्वादशाङ्गी गुरुमुखकमलाद् ग्रहीष्ये ? कदा च भिक्षागतोऽहं गृहे गृहे दुर्वचनानि सहमानस्तथाऽपि स्फुरितासमप्रशमरसो द्वाविंशति परीषहान् सहिष्ये? कदा ह्यहं बाहुबलिमुनिरिव साधूनां भक्तपानादिदानेनोपष्टम्भं करिष्ये? कदा च साधूनां विश्रामणां वैयावृत्त्यं च विधास्ये? कदाऽहं समसुखदुःखप्रसरः समकनकप्रस्तरः समस्वपक्ष-विपक्षः समतरुणीतनूत्करः सममोक्षभवश्च भविष्यामि? इत्येवं सर्वदा सर्वथा च वैराग्यप्रधानो राजा परोपरोधेन विषयेषु प्रवृत्तोऽपि भावतस्त्वप्रवृत्त एवाऽऽसीत् अस्ति च। तथा साधूनां क्षुद्वेदनां शमयितुं, वैयावृत्त्यं कर्तुं, ईर्यासमिति पालयितुं, संयममाराधयितुं, प्राणान यापयितुं, धर्मचिन्तां च साधयितुमुद्गमोत्पादैषणादिदोषै रहितो भिक्षाचर्यायां च प्राप्त एवाऽऽहारो भोक्तव्यः । एभिः षड्भिः कारणैराहारं भुञ्जानोऽपि साधुरकृतभोजन एव उपोषित एव च भाषितो भगवद्भिः । अत एवाऽऽवाभ्यां कृतमपि विषयसेवनं भोजनं चाऽकृतमिति कथितं तच्च नद्याऽपि स्वीकृतं भवत्यै च मार्गः प्रदत्तः । किमद्याऽपि कश्चित् संशयो विद्यते भवत्याः? . तदाऽतीव मुदितया देव्याऽपि-सुष्ठु बोधिताऽस्मि भगवन् ! भवतेति कथयित्वा मुनिगदितं ११५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154