Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 120
________________ कथा समर्पणम् -मुनिधर्मकीर्तिविजयः आसीत् "समर्थः स्वामी रामदासः" नाम गुरुः। भक्तशिष्यवृन्दैः परिवृतः स प्रभुध्याने एव निमग्नः आसीत् । तस्य सर्वेऽपि शिष्याः गुरुभक्तिपरायणाः आसन् । सदा गुर्वाज्ञायाः अनुपालनं परिशुद्धं कुर्वन्तः आसन् । “गुरुवाक्यं ब्रह्मवाक्यं" इति मन्यन्ते स्म ते ।। एकदा “शिष्याणां परीक्षां कुर्याम्" इति विचारो जातो गुरोः चित्ते । तत्पालनार्थं गुरुणा स्वकीयादुद्यानादेकं परिपक्वमाम्रफलमानीतम् । पश्चाद् रहसि स्थित्वा तेन तदानफलं स्वकीयचरणे बद्धम् । तस्योपरि चातुर्येण वस्त्रपट्टिका तथा वेष्टिता यथा न ज्ञायेत केनाऽपि। द्वितीयदिने शिष्याः गुरोः वन्दनार्थमागताः । तदा स गुरुः पुनः पुनः पीडायाः व्याजेनाऽऽक्रन्दति स्म। शिष्यैः व्याकृतम् - प्रभो! किं भूतम् ? किं न स्वास्थ्यस्याऽऽनुकूल्यं वर्तते ? गुरुः आह- वत्साः! मम पादे एकः पिटको जातः , तस्य वेदनया पीडयाम्यहम् । सहसैवोत्थायैकः शिष्यः उवाच- प्रभो! काऽऽज्ञा? अधुनैवौषधानि आनयेयम् ! गुरुणा गदितम्- वेदनायाः शान्त्यर्थमेकः एवोपायः, यदि नाम कोऽप्येतस्मात् पिटकात् स्वमुखेन पूतं लिह्यात् तदा वेदना नश्येत् । एतच्छ्रुत्वैव सर्वे शिष्याः स्तब्धाः अभूवन् । तथा च ते परस्परं मुखमपश्यन् च । सर्वेषां वदनेषु तत्क्षणं ग्लानिः सञ्जाता। ___ सर्वेषां चित्ते गुरुं प्रति पूज्यभावः आदरश्चाऽऽसीदेव । तदर्थं किमपि कर्तुं प्रयत्नवन्तः आसन् । किन्तु एषा घटना तु प्राणहारिणी। पिटकस्य पूतं तु विषमेव । ततो यदि केनाऽपि गृह्यत तर्हि तदीये शरीरेऽप्येते पिटकाः उत्पद्येरन् । तदा १०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154