Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 118
________________ लोभः सर्वविनाशकः मुनिरत्नकीर्तिविजयः आसीत् कस्मिश्चिन्नगरे साहित्य सङ्गीत - कलादिविषय- रसिकः एको नृपतिः । नित्यं तस्य सभायां विदुषां सम्मेलनं भवति स्म । तत्र च ज्ञानचर्चा प्रचलति स्म । नित्यं च नवीनाः स्वदेशस्था अन्यदेशीयाः पण्डिताः कवयो विविधविषयनिपुणाश्च जनास्तत्राऽऽगत्य स्वस्वविषयनैपुण्यं प्रदर्शयन्ति स्म राज्ञः पुरत: । राजाऽपि प्रसन्नो भूत्वा तेषां सर्वेषां यथोचितं सम्माननं कृत्वा तान् प्रीणयति स्म । कथा - S एकदा तस्य सभायां परदेशीयः कश्चित्कविरागतः । स च शीघ्रं काव्यानि कुर्वन्नासीत् । सोऽनेकानि पदालङ्कारादिलालित्यपूर्णानि अश्रुतपूर्वाणि काव्यान्यश्रावयत् राजानं राजसभां च । सर्वेऽपि तादृशान्यद्भुतकाव्यानि समाकर्ण्याऽतीव प्रसन्ना अभवन् । राजाऽपि तस्य तथा काव्यशक्तित: चमत्कृतिमनुभवन्नानन्दितोऽभूत् । आज्ञप्तवान् च स निजं प्रधानं यत् एकादशवादनतो द्वादशवादनपर्यन्तं वित्तकोषस्य द्वारमुद्घाटयतु । तावत्यां वेलायां • यावन्ति स उवोढुं शक्नुयात् तावन्ति रत्नमणिसुवर्णादिद्रव्याणि यथेच्छमेष कविवरो गृह्णातु " इति । " अद्य 4 राज्ञ आज्ञां शिरस्यवधार्य तं कविं सादरं नीत्वा प्रधानो गतवान् । मार्गे कविना विचारितं यत्- “गृहात् पात्रानयने तु समयक्षतिर्भविष्यति । अतो मार्गादेव किमपि पात्रं ग्रहीष्ये" इति । एवं चैकस्या विपणेर्धान्यभरणयोग्यः स्यूतस्तेन क्रीतः । एकादशवादनसमयो जात: । प्रधानेन कोषस्य द्वारमुद्घाटितम् । तत्र च रत्नमणि - मौक्तिक - सुवर्ण- - रजत- हीरकाद्यनेकानि बहुमूल्यानि वस्तून्यासन् । प्रधानः कवि प्रत्युवाच "कविवर ! प्रारभताम् । राजाज्ञामनुसृत्य द्वादशवादनपर्यन्तं यथेच्छं यथाशक्ति च यावन्तं भारं भवान् वोढुं शक्नुयात् तावन्तं गृह्णातु " इति । Jain Education International १०५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154