Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 116
________________ कथा विजयसूर्योदयसूरिः एकदा देवा दानवा मनुष्याश्च प्रजापतिमुपदेशार्थमुपतस्थुः। प्रजापतिना त्रिभ्योऽपि सर्वसामान्योपदेशो दत्तः - 'द"द“द' इति ।। देवैर्विचारितम् - वयं भोगमग्नाः, विषयासक्ताश्च । अतो दकारेण 'दम' इति इन्द्रियदमस्योपदेशोऽस्मभ्यं दत्तः । अतोऽस्माभिरिन्द्रियदमे यत्नः कार्यः। दानवैः स्वनिरीक्षणं कृतम् । स्वस्योगस्वभावमुपलक्ष्य तैनिश्चितं यद् - अतः पर- मस्माभिर्दयालुत्वेन वर्तितव्यम् । द- इत्यनेनाऽस्मभ्यं दयाया उपदेशो दत्तः। । मानवैः स्वस्वभावगता लोभान्धता संग्रहशीलता चा ज्ञाता । तैर्विचारितम् - 'द' इतिशब्देन 'दानं कुर्वन्तु' इति वयमुपदिष्टाः । तथैव च प्रयतितव्यमस्माभिः। एवं च विचारयद्भिः त्रिभिरपि स्वस्वदोषा ज्ञाताः । उपदेशस्य सारोऽपि गृहीतः । तथा च दोषान् त्यक्त्वा गुणान् स्वीकृतवन्तस्ते सर्वेऽपि । -0 व्यक्षरस्तु भवेन्मृत्युः, त्र्यक्षरं ब्रह्म शाश्वतम् । 'ममे' ति व्यक्षरो मृत्युः, 'न ममे' ति च शाश्वतम् ।। (महाभारते) १०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154