Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अनुवादः
- मुनिधर्मकीर्तिविजयः झेनकवेः एषा पङ्क्तिः"रन्ध्रहीना वेणुः तद्वादनमतिकठिनम्" रन्ध्रहीनवेणोः वादनं न कठिनमेव , अपि त्वशक्यमस्ति ।
"अस्त्यस्मिन् जगति मनोज्ञस्य संगीतस्य प्रसारस्य सामर्थ्यमस्यां वेणौ"इति तात्पर्यमेतत्पङ्क्तेः।
"तवेण्वाः रिक्तभागे प्रतिनियतान्तरे छिद्राणि तथा च पिहितस्य द्वारस्य वातायनस्य चोद्घाटनम्"एतदेवाऽत्राऽऽवश्यकम् ।
केवलमत्र तत्र कृतैः छिद्रैः संगीतस्य मधुरसुरावलिः प्रसरति । किन्तु तच्छ्रवणार्थं निरोधनीयो बहिःस्थितः कोलाहलः, सर्वतो मौनं धरणीयम् , तावन्मानं कर्तव्यं यावत् निःशब्दोऽपि शब्दः श्रूयेत।। ___ अस्तित्वस्य स्वकीयः प्रशस्तः आरावोऽस्ति । स्वकीयं संगीतमप्यस्ति । तस्य निरन्तरं लयबद्धानि आन्दोलनानि सर्वत्र प्रवहन्त्येव ।
यदि चेत्तदान्दोलनग्रहणस्योत्सुकता तर्हि एतत्परमं पवित्रं संगीतमानन्दोदधौ निमज्जयिष्यति।
ततो बन्धो! चल चल वयं सर्वेऽप्येतन्मधुरस्य संगीतस्याऽनुभूत्यर्थं प्रयाणं कुर्याम ।
-
0
९९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154