Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
_ (वासन्तिका) भू-रङ्ग-मानुषनटैरभिनीयमानं संसारनाट्यमवलोकयितुं दिनादौ । आरुह्य शक्रहरिदासनमंशुमाली लब्ध्या महारसिकतां रिमतमातनोति ॥ (ततः प्रविशति भट:)
(बेगडे रागेण भामिनीषट्पदीछन्दसा गायति ।) कलितबहुलकलाविलासे ! ललितनाट्योत्सवनिवासे ! मिलितबन्धुरभावभङ्गिविशारदे ! बाले ! । कलयितुं त्वां रमणि ! नृत्यं तुलनया परिवर्जितं बुधवलयनिबिडायां सभायां नृपतिराह्वयते ॥
नर्तकी- (आत्मगतं) अये, आर्यकौटिल्यस्येदम् आह्वानं न पुनर्देवस्य चन्द्रगुप्तस्य । नगरे वर्तमानाः परिस्थितीः संस्थायां सूचयितुं पूर्वमेव नियुक्ताऽस्मि । परन्तु मया ये विषयाः सूचितास्तत्र किञ्चिदिवाश्रद्दधानस्तत्रभवान् कौटिल्यः प्रत्यक्षमेव नृत्यप्रयोगदर्शनव्याजेन तान् । सर्वान् द्रष्टकामोऽस्ति । मयाऽपि देवस्य चन्द्रगुप्तस्य पुरस्तात् नृत्यप्रयोगव्याजेन नगरे वर्तमानाः परिस्थितय आर्यकौटिल्याय सूच्यन्ते । तत्रभवान् मया सूचयिष्यमाणेषु प्रसंगेषु कांश्चन विशेषान् विस्पष्टं ज्ञास्यत्येव स्वीयया अनितरसाधारण्या मेधया।
(प्रकाशं) अयि भोः भट, विज्ञाप्यतां तावद् देवश्चन्द्रगुप्तो यदनुगृहीताऽस्म्यहमनेन मयि पतितेन देवकटाक्षेण । तत्रभवतो देवस्याज्ञानुवर्तिनी इयं सेविका देवस्य सेवां करिष्यतीति ।।
भटः- तथा (इति निष्क्रान्तः) नर्तकी- (आत्मगतं) अधुना शिष्या अभ्यासार्थं प्रेरणीयाः ।
ICES & RESE CONCEPSC
A
७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154