Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown
View full book text
________________ All AIIATIGATHI ATHI NIHITENA तत्प्रेष्यतामिति च कोशलभर्तुरग्रे विज्ञप्य तं सपदि कञ्चुकिनोऽपि निन्युः // 6 // अपरमपरमस्वरूपधारी वपुरिव चारु निजं नियन्त्रितारिः / अविशदविशदारविन्दनेत्रः प्रमदयिता दयितागृहं स वीरः . // 61 // इति श्रीमाणिक्यदेवसूरिकृते नलायने सप्तमे स्कन्धे तृतीय सर्गः // 3 // . सप्तमे स्कन्धे चतुर्थः सर्गः / रत्नसिंहासनासीनां चलच्चामखी जिताम् / ददर्श सहसा देवी दमयन्तीं प्रियां नलः तां समाकलयन् देवी नलः प्रबलसंभ्रमः / न सेहे सहसा रोद्धं प्रेम पारिप्लवङ्गमम् ददर्श कुब्जमपि तं महाभक्त्या दमस्वसा / स्वयमासनदानादि प्रतिपत्ति वितन्वती आस्तामलमलं देवि ! संभ्रमेण महीयसा / आस्यतामुपविष्टोऽस्मि कच्चिद् गात्रमनामयम् ? दिष्ट्याद्य सुप्रभातं मे यद् दृष्टासि विदर्भजे!। त्वं हि प्राणप्रिया देवि ! नलस्य स्वामिनो मम तस्यापि यदि सा राज्ञः संप्राप्ता तादृशी दशा / कः परेषां वराकाणां तद् दैवं प्रति विक्रमः स्वयि वैदर्भि ! जीवन्त्यां साक्षाद् राजा स जीवति / त्वदीयो महिमा नूनं मनुष्याणामगोचरः श्रुतमेव मया वृत्तं त्वदीयं च सविस्तरम् / यथा त्वमसि निस्तीर्णा दुस्तरं कष्टसागरम् BIHSIA III A IIFI AII ASEANI SENS = = = =F .

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398