Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 393
________________ DISII A-BHI AIII THI - III IIIT ISle तदकपालिसंभूतपुलकः शुशुभे मुनिः / अकालजलवृष्ट्येव कदम्बः स्फुटकोरकः .. : . // 32 // ततो विकृतिमात्मीयां संवृण्वन् स्मृतसंयमः / स देवेन कृतां मायां विवेद च निनिन्द च // 33 // जवादन्तर्दधे रम्भा संभ्रमेण मुनीशितुः / कितवः कृतकर्त्तव्यो न छुपायेन तिष्ठति . . // 34 // मुनीन्द्रोऽपि तदात्मीयं शीलदर्पणलाञ्छनम् / ततक्ष सुतरां तीक्ष्णैस्तपःशाणैरनेकशः // 35 // रूपं ममापि च तथैव विकृत्य कृत्यैः शक्राज्ञया यदमरै'छलितो नरेन्द्रः। तेनास्म्यहं तदुपसर्गनिमित्तभूता मत्वेति भीमतनयापि तपस्ततान // 36 // नानाशनैरनशनैर्लपिताङ्गयष्टिः स्वाध्यायसंयमसमाधिषु बद्धकक्षः। श्रीमान् मुनिः क्षपितकर्मनलोऽमलोऽपि भाग्यैरभूदुपरि सर्वमहामुनीनाम् // 37 // तस्मिन् गते नृपऋषौ अवनान्तरेण सम्यक् समाधिपरिणामपरायणे च / साध्वीशिरोमणिरसङ्ख्यगुणकभूमिर्मीमोद्भवापि समपद्यत काळधर्मम् // 38 // इति श्रीमाणिक्यदेवसूरिकृते नलायने दशमे स्कन्धे तृतीयः सर्गः // 3 // MSRILAIII ABRII IIIII IIISISite

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398