Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 381
________________ // 3 // // 4 // . शम् // 8 // ByIIIIIIII-III Ila सहस्रशः कुमारीणां वस्त्रालङ्करणैः समम् / महर्षिदानमुख्यानि भक्तपानानि सा ददौ स्वयं विखण्डितक्लेशा षड्भागोनामखण्डधीः / चक्रे मासोपवासानां प्रयता पश्चविंशतिम् ततस्तत्तपसा तेन प्रीता प्रत्यक्षतां गता / उवाच विशदं वाक्यं स्वयं शासनदेवता वत्से ! कमलपत्रेण लोहमारः समुद्धतः / तपसः क्षमतां नीतं वपुर्यदिदमीदृशम् वशीकृतास्मि साहं ते तन्वनि ! तपसामुना / चन्दनद्रुमकन्दल्याः सौरम्येणेव पन्नगी इदं ते पूर्यते शीघ्र कमलाक्षि ! मनीषितम् / कृतं कालविलम्बेन सजीभव कृशोदर ! इति तां प्रगुणीभूतां शंसन्ती शासनामरी / विमाने स्वयमारोप्य निनायाष्टापदे गिरौ तमष्टयोजनोच्छ्रायमष्टदिग्भागविश्रुतम् / सा वन्दते स्म साष्टाङ्गमष्टापदमहागिरिम् नूनं स भरतो राजा मनुष्य इति नेष्यते / दिव्यं यस्येदमद्यापि कीर्तनं भुवि वर्त्तते इत्यन्तश्चिन्तयन्ती सा प्रासादे तत्र सुन्दरे / प्रविवेश विशालाक्षी देव्याः सान्निध्ययोगतः द्विदशाष्टचतुर्भेदविभक्तान् भक्तितत्परा / स्तम्भस्थितान् ववन्दे सा चतुर्विंशतिमर्हतः तेषां च विधिवत् पुष्पैः पूजां विदधती सती / सफलं सा निजं मेने जीवितव्यं च जन्म च प्रत्येकमपि मूर्तीनां नानारत्नमयानि सा / तिलकानि ललाटेषु रचयामास भाविनी स्थित्वा च जानुयुग्मेन मुक्ताशुक्तिकमुद्रया / ततः स्तुतिमिमां चक्रे महा● मोहवर्जिताम् // 10 // - // 11 // // 12 // IIIIIIIIIII-III Isile // 14 // // 15 // // 16 //

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398