Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 352
________________ सप्तमे स्कन्धे सप्तमे स्कन्धे पञ्चमः सर्गः / सर्गः 5 दमय न्योविवादः॥ // 166 // IIIIII-III II-II5195 इति देव्याः वचः श्रुत्वा देवराजद्युतिनलः / प्रत्युवाच पुनर्वाचं वैचित्र्यचतुरान्तरः अयं ते विभ्रमो भैमि ! भूमिवाग्देवते ! वृथा / यदश्वहृदयादिभ्यो मयि कुब्जे नलभ्रमः नन्वहं तस्य राजमहद्विवाराभाजनम् ! मयि न्यासीकृतास्तेन ग्रीतेन सकलाः कलाः दृष्टश्चास्मि त्वया पूर्व ननु स्मरसि संप्रति / कियती प्राकृती लोके प्रभृणां भवति स्मृतिः * // 4 // त्वमत्र सुस्थितां ज्ञात्वा स्वामिभक्तिवशंवदः / अहं देवि ! समायातः तव सेवाविधित्सया ऋतुपर्णमनुज्ञाप्य स्वस्वामिन्या मनस्विनि ! / अहं तव करिष्यामि सेवां सर्वाङ्गसुन्दरि ! इत्थं वदति राजौ देवी दुर्वारविभ्रमा / विलोक्य केशिनीमुख्याः सखीः साश्रुरभाषत यदि च स्वकुटुम्बेन तव नास्ति प्रयोजनम् / कण्ठशोषफलस्तर्हि को विवादस्त्वया सह ? एष सम्यग् गृहीतोऽपि हस्ताग्रात् किं वियुज्यसे? / कुतो वा मन्दभाग्यानां गृहे चिन्तामणिः स्थिरः // 9 // त्वयि वज्रमये राजन्नसत्यं मयि तन्वति / उपायाः सकला जाता मदीयाः सर्वथा वृथा // 10 // इयन्तमवधिं यावजीवितास्मि त्वदाशया / अधुना जीवितव्येन मम नास्ति प्रयोजनम् // 11 // * यदि न त्वं नलो राजा कुब्जोऽसि परमार्थतः / न तद् विद्वन् मदीयेन हत्यापापेन लिप्यसे . // 12 // बाजाI III HIात 66 //

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398