Book Title: Nalayanam
Author(s): Manikyadevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 363
________________ जय जय जय शत्रून् मङ्गलं मङ्गलं ते पुनरपि निजदेशे सुप्रवेशस्तवास्तु / : इति कलकलवृन्दैवन्दिना सूचितोऽभूत् पृथुकटकनिवेशस्तस्य गङ्गातटेषु // 29 // इति श्रीमाणिक्यदेवसूरिकृते नलायने अष्टमे स्कन्धे प्रथमः सर्गः॥१॥ . अष्टमे स्कन्धे द्वितीयः सर्गः। - // 2 // . // 3 // // 4 // तमागतमुपश्रुत्य कृतदिग्विजयं नृपम् / न पुष्करनृपस्यासीत् मनःक्षोभो मनागपि समर्थोऽपि नलस्तस्मिन् न च दण्डमधारयत् / क्व नु संबधबद्धानां प्रहत्तुं प्रगुणाः कराः प्रजिघाय ततो दूतं नलस्तस्मै वचोहरम् / परचित्तमहाकूपे स हि प्रथमसङ्क्रमः स तत्वकलया वाचा सदाचारविदाम्वरः। अभाषत सभासीनमदीनं पुष्करं प्रति दिष्ट्या त्वं वर्द्धसे राजन् ! जयेन विजयेन च / दशदिग्विजयं कृत्वा न च भ्राता समागतः अद्य भूमिभृतः सर्वान् नले कुर्वति किङ्करान् / वीरसेनकुलं कान्त्या जित्वा मेरुमपि स्थितम् सर्वे शिरसि सानन्दं वहन्ति नलशासनम् / अग्रजत्वेन ते पूज्यः स तु राजा विशेषतः तस्मिन्निह समायाते जिगीषौ ज्येष्ठबान्धवे / स्वागताचारवन्ध्यस्त्वं किं मूढ इव तिष्ठसि ? IIII-IIIEIGIIFIFII-IIIHIG // 7 //

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398