Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
सहकारिकारणत्वेन स्वीकर्तुरदृष्टवादिनः सिद्धान्तपक्षः, पञ्चविंशतितत्त्वसङ्ख्यावतां सायमताभिलाषुकाणां प्रकृतिरूपेण कर्मणो मन्तव्यस्य व्यापादनं, शक्तिरूपेण कर्माभिमतानां निबर्हणं, वासनारूपेण कर्मेष्टबौद्धानां प्रमापणं, कर्मणि वैचित्र्यजात्यनङ्गीकृतां नैयायिकानामपासनं, कर्मणोऽनादित्वस्य सिद्धिरित्यादि कृतं सर्व विलोकनविबुधवरैः स्वयमेवावसेयं । पुनस्तेषामक्षपादानां समवायस्येश्वरकर्तृत्वस्य च यथास्थानं प्रवासनमपि तैः प्रवचनप्रवीणनिर्मातृभिर्न शेषितम्।
वर्तमानकाले कर्मसाहित्यप्रधानजैनेन्द्रशासने तद्विबुधवराः सुदुलभा एव । अपि तु केचन वर्तन्ते, तथापि तेषां मध्ये सौष्ठवौदार्यविशेषशालिनोऽस्य ग्रन्थस्य स्रष्टारः, पूज्यपादप्रातःस्मरणीयप्रवचनपारदृश्वप्रशमपीयूषपयोनिधिपारगतशासनरत्नत्रयप्रदीपप्रदायकाचार्यवर्यश्रीमद्विजयदानसूरीश्वरसुशिष्यरत्नाः कर्मसाहित्यार्णवकुशलकर्णधारश्रुतसागरपारीणानुयोगमृगाचार्यश्रीमत्प्रेमविजयगणिपादा एव वरीवर्तन्ते ।
अस्य ग्रन्थस्य परिशोधने प्रसिद्ध्यर्थं च पूज्यपादमुनिगुणगरिष्ठानां मुनिवर्याणां श्रीमन्मङ्गलविजयवराणां सत्प्रयासोऽपेक्षितः। तेषां सदुपदेशेनैव सूर्यपुरनिवासि-श्रेष्ठिवर्य-"मंच्छुभाई जीवनचन्द झवेरी" इत्ययमार्थिकसाहाय्यं दत्तवान् ।
जिनेन्द्रशासननभोनभोमणीनां तेषां सुशिष्यरत्नाभ्यां व्याख्यातचूडामणिमुनिश्रीमद्रामविजयश्रीमन्जम्बूविजयवराभ्यामप्ययं ग्रन्थो दृग्गोचरीकृतो वर्तते । पुनरन्यकोविदवराणामपि नयनातिथित्वं गतोऽस्त्ययं प्रन्थः।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68