Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 29
________________ १८ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिताचारात्, न च विद्युदादीनां पक्षतावच्छेदकाक्रान्तत्वेन तत्र साध्यमेवेति वक्तव्यम् , तथा सति घटादीनामपि पक्षान्तर्वर्तिस्वेन दृष्टान्तोपादानासंभवात् , अतो विद्युदादेः सपक्षकक्षाप्रवेशेन तद्वत्तित्वस्याप्यभावादसाधारणानैकान्तिकत्वस्य युक्तिशतेनापि दूरीकर्तुमशक्यत्वात् । न च कुलालकृतिजन्यत्वस्य घटादौ विद्यमानत्वेन नासाधारण्य मित्याशङ्कनीयम् , तादृशकृतेस्तु साध्यतावच्छेदकानाक्रान्तत्वात् । किश्चावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वेऽप्यन्ततः क्षितित्वस्य व्यर्थत्वात् जन्यत्वस्यैव पक्षतावच्छेदकत्वं स्वीकरणीयं स्यात् , तथा च पक्षतावच्छेदकहेतोरक्यप्रसङ्गः । नन्वैक्येऽपि का क्षतिरिति चेत् ? न, उद्देश्यतावच्छेदकविधेययोरैक्येनोपनयवाक्यात् शाब्दबोधानुपपत्तेः। न च स्वरूपसम्बन्धविशेषरूपकार्यत्वस्यैव पक्षतावच्छेदकत्वेन प्रागभावप्रतियोगित्वस्य च हेतुत्वान्न सयोरैक्यमित्यारेकणीयम् , स्वरूपसम्बन्धरूपकार्यताव्यक्तीनां तत्तयक्तिमात्रपर्यवसितत्वेनानुगतपक्षतावच्छेदकालाभात् , नचान्यतमत्वेनानुगतव्यक्तीनां पक्षतावच्छेदकत्वमित्याशङ्कनीयम्, अन्यतमत्वघटितत्वेन गौरवात् । एवं प्रागभावप्रतियोगित्वस्यापि स्वरूपसम्बन्धविशेषरूपत्वेन तत्तद्धमिव्यक्तिरूपत्वात् पक्षतावच्छेदकहेत्वोरक्यापरिहारः। न च स्वरूपसम्बन्धादतिरिक्तं प्रतियोगित्वमिति वक्तव्यम् , सप्तैव पदार्था इति वाक्येन विरोधापत्तेः । किञ्च स्वरूपसम्बन्धरूपकार्यत्वस पक्षतावच्छेदकत्वे तादृशकार्यत्वस्य परमाण्वादिष्वपि विद्यमानत्वेन परमाण्वादीनामनित्यत्वापत्तिः। ननु ययोर्विशेषकार्यकारणभावः तयोरवश्यं सामान्येन कार्यकारणभाव इति

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68