Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
कर्मसिद्धिः।
५३ कर्म, किन्तु जीवस्य प्रतिप्रदेशवर्तीति स्थितम् । तथा चानुमानं-आत्मनः प्रतिप्रदेशं विद्यते कर्म, सर्वत्रात्मनि वेदनासद्रावात् शरीरे त्वगिव । तथा मिथ्यात्वादीनां कर्मबन्धकारणानामात्मनि सर्वत्र सद्भावात् तत्कार्यभृतं कर्मापि सर्वत्रात्मनि विद्यते न पुनः बहिरेवेति क्षीरनीरवदग्नितप्तायोगोलकवद्वाऽविभागेनैव स्थितं कर्मेति सिद्धम् ।।
ननु मूर्तेन कर्मणा साकमात्मनः सिद्धेऽपि संसर्गे मिथ्यात्वादिहेतुभिः जीवेन क्रियत इति व्युत्पत्तिबलात् कर्मणः कृतकत्वेन सादित्वं प्राप्तम् । तथा च सति पूर्व कर्मवियुक्तत्वेन मिथ्यात्वादिहेत्वभावात् कथमादौ कर्मणां बन्धः ?, निर्हेतुकबन्धे च मुक्तात्मनामपि बन्धःप्राप्नोति, निर्हेतुकत्वाविशेषादिति चेत् ? न, कृतकत्वेन सादित्वेऽपि प्रवाहतोऽनादित्वात् । ननु नियतव्यक्त्यपेक्षया प्रवाहतोऽपि कृतकत्वेन कथमनादितेति चेत् ? न, अतीतकालवत् प्रवाहतोऽनादित्वात्, तथाहिअनुभूतवर्तमानभावेऽपि भूतकालः प्रवाहतो यथाऽनादिः।
तदुक्तम्"भवति स नामातीतःप्राप्तो यो नाम वर्तमानत्वम् । एष्यश्च नामस भवति यःप्राप्स्यति वर्तमानत्वम्॥१॥"
-इति । तद्वत्कर्मणोऽपि प्रवाहतोऽनादित्वं भविष्यतीति ।
तथा चाहुः श्रीमद्धरिभद्रसूरिपादाःसिक्वं कयगं कम्मं णयादिमंत पवाहरूवेण । . अनुभूयवत्तमाणातीतद्धा समय मोणातं॥१॥” इति ।

Page Navigation
1 ... 62 63 64 65 66 67 68