Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 44
________________ कर्मसिद्धिः। ३३ तदुक्तं"जाइ सरो सिंगाओ भूतणओ सासवाणुलित्ताओ। संजायइ गोलोमाविलोमसंजोगओ दुवा ॥१॥ इइ रुक्खायुबेदे जोणिविहाणे य विसरिसेहिंतो। दीसइ जम्हा जम्मं सुहम्म!तो नायमेगन्तो।।" इति । दृश्यते च लोकेऽपि शालूकादपि शालूकः गोमयादपि शालूकः भवति, तथाग्नेरपि वह्निररणिकाष्ठादपि, बीजादपि वटादयः शाखैकदेशादपि, बीजादपि गोधूमा वंशबीजादयीति । यद्वा कारणानुरूपा कार्याणामुत्पतिः त्वया खीकृता तथैव जीवानामपि विचित्रता प्रतिपद्यस्व । ननु जीवानां वैचित्र्ये को हेतुरिति चेत् ? अदृष्टमिति ब्रूमः । ननु तर्हि कर्मणोऽपि विचित्रता किं निमित्तोद्भवेति चेत् ? मिथ्यात्वादिहेतुसंभवेति । अनुमानं चात्र नरकादिरूपेण संसारित्वं विचित्रं चित्रकर्मणां कार्यत्वात्, यथा लोके विचित्राणां कृषिवाणिज्यादिक्रियाणां फलमिति कर्मवैचित्र्यात् भवस्यापि विचित्रत्वं स्त्रीकुरु । पुद्गलपरिणामात्मकत्वेन विचित्रा कर्मपरिणतिरना. दिवदभ्युपगन्तव्या, यद्विचित्रपरिणतिरूपं न भवति तत्पुद्गलपरिणाममपि न भवति यथा गगनम् । पुद्गलपरिणामसाम्येsपि ज्ञानावरणीयादिभेदेन विचित्रता सा ज्ञानप्रत्यनीकादिविशेषहेतुसमुद्भूताऽवसातव्येति । यद्वेह भवसदृशः परभवो भवतां सम्मतस्तथैवेह भवसदृशं कर्मफलमपि परत्र मन्यख, एतदुक्तंभवति-विचित्रगतिहेतुकविचित्रक्रियानुष्ठातॄणां प्रत्यक्षत उपलभ्यमानत्वेन परत्रापि तत्तक्रियाणां विचित्रं फलमेष्टव्यम् ।

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68