Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
३४ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फितायथेहत्यक्रियाणां विसदृशता स्वीक्रियते, तथैव परत्रापि जन्तूनां विसदृशताऽवश्यमाश्रयणीया स्यात्, न तु सदृशतेति । ननु या कापि क्रिया सैहिकफलजनिकैव कृष्यादेः सस्यादिफलवन्न परत्र फलजनिकेति कुतः परत्र जन्तुवैसादृश्यम् , तजनकक्रियाया एवाभावादिति चेत् ? ननु तर्हि भवदभ्युपगतं सादृश्यमपि परत्र कुतः ? सादृश्यजनकपारभविकक्रियाणां निष्फलत्वाभ्युपगमात् । ननु तजनककर्माभावेऽपि सादृश्यं स्वीक्रियत इति चेत् ? कृतनाशाकृताभ्युपगमः स्यात् । यद्वा दानहिंसादिक्रियाणां निष्फलत्वाभ्युपगमे मूलतो बन्धाभावः, बन्धाभावे च कमाभावः, तदभावे च भवान्तराभावः, तदभावे च सर्वेषां मुक्तिप्रसङ्गः, साहश्याभावश्चापद्यते । कर्माभावेऽपि भवस्वीकारे निष्कारण एवासौ स्यात् , तथा भवनाशोऽपि निष्कारण एव स्यात् । तथा च सति तपोनियमाद्यनुष्ठानं निष्फलतामापयेत । तथा वैसादृश्यमपि निष्कारणं कथं नेष्यते विशेषाभावादिति । यद्वा सर्व वस्तुजातं सादृश्यासादृश्यं किं पुनः परभवः । तथाहि-सर्व वस्तुजातं पूर्वतनैः सामान्यविशेषपर्यायैयुपरमति, उत्तरैः सामान्यविशेषपर्यायैरुत्पद्यते, द्रव्यत्वेन तादवस्थ्यम् । तथैव प्रमेयत्वादिभिः सर्वेषां वस्तूनां साधर्म्यमात्मत्वादिभिः वैधर्म्यमेवमात्मनोऽपि स्वभिन्नजीवैः सहात्मत्वेन साधर्म्य स्वस्मिन्न वृत्तिज्ञानादिभिः सह वैधर्म्यम् । एवं सर्वत्रापि साहश्यासादृश्यं वाच्यं न केवलं परत्रैवेति । सादृश्यमेव, वैसाहश्यमेव वेति तु भवितुं नैवाहति, यत इहापि भवे बालत्वपर्यायं परित्यज्य यौवनपर्यायमनुभवति, यौवनपर्यायं परि

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68