Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 48
________________ कमसिद्धिः। नियतेः वाच्यम् । तथोद्यमतोऽपि कार्य जायते, सतः कार्य प्रायशः क्रियातो भवति, क्रिया च पुरुषकारायचा प्रवर्तते । तदुक्तं"न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः। अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ॥१॥” इति । दृश्यते च समानेऽपि पुरुषकारे फलवैचित्र्यम् , तत्र पुरुषकारवैचित्र्यं कारणम् , क्वचित्समानेऽपि पुरुषकारे फलाभावो दृश्यते, तत्रादृष्टं कारणं स्वीकरणीयम् । तथा बकुलचम्पकाशोकपुन्नागसहकारादीनां विशिष्ट एव काले फलोद्भवः न सर्वदा, न च कालस्सैकरूपत्वेन कार्यवैचित्र्यं न भवतीति नोद्यम् , अदृष्टस्यापि स्वीकारात् । तथा स्वभावोऽपि कारणं, तथाहि-आत्मनः उपयोगलक्षणत्वमसङ्ख्येयप्रदेशत्वममूर्तत्वं पुदलानां मूर्तत्वं सुखदुःखोभयजनकत्वं चयोपचयत्वं धर्मास्तिकायस्य गत्युपष्टम्भकत्वमधर्मास्तिकायस्य स्थित्योपष्टम्भकत्वमाकाशास्तिकायस्थावकाशदातृत्वं कालस्य वर्तनापर्यायजनकत्वमित्यादिकार्यजातं खभावापादितम् । व्यतिरिक्ताव्यतिरिक्तपक्षस्तु न दोषजनकः, उभयधर्मावच्छिन्नस स्वभावस्य कार्यजनकत्वस्वीकारात् । अत्र स्वभावः तथाभव्यत्वात्मिका जातिः काबैंकजात्याय कल्पनीयेति । तथेश्वरोऽपि विश्ववैचित्र्यजनकः । अत्रेश्वर आत्मा तत्र तत्रोत्पत्तिद्वारेण सर्वत्र व्यापनात् व्यापकः तस्य सर्ववादिभिः सुखदुःखादिजनकत्वेन स्वीकारादिति । तथा कर्मणः वैचित्र्यजनकत्वं प्राक् सविस्तरमुक्तमेव, तदेवं सामग्री कार्यजनिकेति प्रतिपादितम् ।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68