Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri
View full book text
________________
४६ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिताकत्वापत्तेः। ननु दानादिक्रियासम्बन्धादात्ममात्राजन्यत्वे सति आत्मव्यतिरिक्ताऽसाधारणकारणजन्यत्वमेव सेति चेत् ? न, आत्मनोऽनुपचये तस्या अप्रादुर्भावात् , दानादिक्रियातः तदुपचये पुष्टिहेतुत्वेनादृष्टसिद्धिरावश्यकीति जन्यपक्षोपि भवतां न क्षेमङ्करः, नाप्यजन्यपक्षः, तथाहि-अजन्यापि सा किमावृतानावृता वा?, आवृता चेत् ? समीहितमसाकं 'यदेवावरणं तदेव कर्म' इति । अनावृता चेत् ? अहर्निशं स्वर्गादिकार्य कथं न जनयति ?, व्यञ्जकाभावादिति चेत् ? ननु तत्र कस्य व्यञ्जकत्वं ?, दानादिक्रियाया इति चेत् ? न, व्यथैव व्यञ्जकत्वकल्पना, नित्यनिवृत्तत्वेनावरणाऽयोगात् । नित्यायाःशक्तेः कार्यान्तरं प्रत्यनावृत्तत्वेऽपि प्रकृतकार्य प्रत्याभिमुख्यभावात् तत्रावरणकल्पनेत्यर्धजरतीयन्यायस्वीकारेऽपि कर्मरूपता स्वीकृतैवेति ।
यदुक्तं"अस्त्येव सा सदा किन्तु, क्रियया व्यज्यते परम् । आत्ममात्रस्थिताया न, तस्या व्यक्तिः कदाचन ॥१॥ तदन्यावरणाभावाद्, भावे वास्यैव कर्मता। तन्निराकरणाद् व्यक्ति-रिति तद्भेदसंस्थितिः।२।" इति।
किञ्च-सा शक्तिः स्वर्गादिजनने समर्थाऽसमर्था वा ?, समर्था चेत् ? क्रमेण स्वर्गादिजनिका युगपद्वा?, न तावत् क्रमेण, यतः कथं न जनयेत् नरत्वाद्युत्पत्तौ कालान्तरभावि स्वर्गादिकम् , समर्थस्य कालक्षेपायोगात् कालक्षेपे चासामर्थ्यप्राप्तेः । ननु समर्थापि सहकारिसनिधिमपेक्षत इति चेत् ? तर्हि तस्या असामर्थ्य अपरसहकारिसापेक्षवृत्तित्वात् । ननु सा
क्रमेण, यतः कण वर्गादिजानका समर्थाऽसमर्था वा

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68