Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 56
________________ कर्मसिद्धिः। ४५ वासयति घटादिवत् । वासकात् वासनाभिन्ना चेत् ? कथं तर्हि वासनीये वासनायाः संक्रमः१, वासनाया वासकानतिरिक्तत्वात् स्वरूपवत्, संक्रमाभावे च वासकात् न युक्ता वास्यस वासनेति । अथ दृष्टहानिमिया कथमपि वास्से वासनासक्रमः स्वीक्रियते । एवं सति वास्यवासकभावसम्बन्धोऽपि नानुपपन्नः, अवृक्षव्यावृत्त्या वृक्षत्वसामान्यवत् वासनायाः परिकल्पितत्वेन भेदाभेदोक्तदोषावकाशोऽपि नेति चेत् ? न, वासनायाः कल्पितत्वेन व्यवहारानङ्गत्वात् , अन्यथा कल्पितस्य गगनारविन्दस्यापि व्यवहारप्रसङ्गात् । तदुक्तं"सिय वासणातोगम्मइ,सावासगवासणिजभावेण। जुत्ता समेच दोण्हं, न तु जम्माणंतरहतस्स ॥१॥ सा वासणातो भिन्नाभिन्ना व हवेज ? भेदपरकंमि। को तीए तस्स जोगो, तस्सुण्णो वासइ कहं च ॥२॥ अहणो भिन्ना कह तीए, संकमो होइ वासणिजम्मि ? तदभावम्मि य तत्तो, णो जुत्ता वासना तस्स ॥३॥ सति यण्णय पसिद्धी, पक्रखंतरमोय नत्थि इह अण्णं । परिकप्पिता तई अह, ववहारगंततो कह णु ॥४॥” इति । .. तदेवं वासनारूपमपि कर्म न भवति । ननु मास्तु वासनारूपं कर्म आत्मशक्तिरूपत्वस्वीकारे का क्षतिरिति चेत् ? ननु साऽऽत्मनो भिन्नाभिन्ना वा?, अभिन्ना चेत् ? आत्मस्वरूपैव, मिना चेत् ? जन्याऽजन्या वा ?, जन्या चेत् ? तदुत्पत्ताववश्य: मात्मव्यतिरिक्तं हेत्वन्तरमाश्रयणीयं स्यात् । अन्यथाऽऽकसि

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68