Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 59
________________ ४८ अनुयोगाचार्य श्रीमत्प्रेमविजयगणिगुम्फिता - नन्वात्मनोऽमूर्तत्वेन मूर्तेन कर्मणा सह कथं संसर्ग इति चेत् ? आकाशेन घटादीनामिव क्रियया द्रव्यस्येव क्षीरनीरमिव वेति वाच्यः । यद्वा किं निदर्शनान्तरावलोकनेन प्रत्यक्षोपलभ्यमानस्थूलशरीरेणात्मनः इव कार्मणशरीरस्यापि संयोगो नानुपपन्नः ९ । अत्र धर्माधर्मनिमित्तं स्थूलशरीरं स्वीकुर्वाणं तार्किकं पृच्छामः, भो तार्किकशिरोमणे ! भवदभिमतौ धर्माधर्मौ मूर्ती अमूर्त्तं वा ?, मूर्त्ते चेत् ? अमूर्त्तेनात्मना सह तयोः कथं संसर्गः १, यथा कथञ्चिद्भवतीति चेत ? तर्हि कर्मणोऽप्यात्मना सह संसर्गः कथं नेष्यते, अमूर्ती धर्माधर्माविति चेत् ? बाह्येन स्थूलशरीरेण सार्धं कथं तयोः संसर्गः ?, तब मते मूर्त मूर्तयोः संसर्गाभावात् । न चासम्बद्धयोरपि तयोः स्थूलशरीरेण सह संसर्ग इति वाच्यम्, अतिप्रसङ्गात्, यद्यमूर्तयोरपि तयोः स्थूलशरीरेण साकं संसर्ग इष्यते, तर्हि कार्मणशरीरेण साकं कथं विरोधमुद्भावयसि ?, नन्वेवं मास्तु स्थूलशरीरेणापि साकं संसर्गस्तयोरिति चेत् ? तर्हि स्थूलशरीरस्यात्मना साकं तु संसर्गे दूरोत्सारित एव तथा च सति देवदत्तशरीरोपघातो यथा यज्ञदत्तस्य दुःखादिकं न जनयति, संसर्गाभावात्, तद्वत्स्थूलतन्वा सह संसर्गाभावे देवदत्तशरीरोपघातो देवदत्तस्यापि दुःखादिकं न जनयेत् ?, संसर्गाभावत्वाविशेषात्, तथा च सति दृष्टेष्टविरोधः । तथाहि - शरीरस्यानुग्रहादिनिमित्तत्वेनानुभवगम्याः सुखादयो दृष्टाः । न च शरीरानुग्रहादिनिमित्तान्यनिमिचान्तरमिति वक्तुं शक्यते, शरीरानुग्रहादिनिमित्तेन सहान्वयव्यतिरेकदर्शनात् । अन्वयव्यतिरेकानुविधानेऽपि निमित्तान्तरमुपकल्पेत तर्हि सर्वत्र प्रतिनियत कार्यकारणभावोच्छेदप्रसङ्गः ।

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68