Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 52
________________ कर्मसिद्धिः। ४१ वक्ष्यमाणानुमानेन प्रधानस्य तत्कर्तृत्ववत्तद्भोक्तृत्वप्रसङ्गात् , अन्यथा कृतनाशाकृताभ्युपगमप्रसङ्गः। अत्र प्रयोगः-प्रधानं बन्धफलानुभोक्तृ बन्धाधिकरणत्वात् कारागारबद्धतस्करवत् । न चात्मनः चेतनत्वात् भोक्तृत्वं न प्रधानसेति वक्तव्यम् , मुक्तात्मनोऽपि कर्मफलानुभवप्रसङ्गात् । ननु मुक्तात्मनः प्रधानसंसगांभावात् न फलानुभवनमिति चेत् ? तर्हि संसारिण एव प्रधानसंसर्गात् बन्धफलानुभवनं प्राप्तं तथा चात्मन एव बन्धः सिद्धः, बन्धफलानुभवनिमित्तस्य प्रधानसंसर्गस्य बन्धरूपत्वात् बन्धस्यैव संसर्गः पुद्गलस्य च प्रधानमिति नामान्तरमेव कृतं स्यादिति दिक। कर्मणां पौद्गलिकत्वे सिद्धे तेषामनन्तशक्तिमत्त्वेन विचित्रतापि नानुपपन्ना। तत्तत्कर्मणां विशिष्यादृष्टहेतुत्वस्यावश्यकत्वेन वैजात्यकल्पने मानाभाव इत्यपि न सुन्दरम् , तव मतेऽपि कीर्तननाश्यतावच्छेदकत्वेनावश्यकत्वात्तस्य, अदृष्टत्वस्य खाश्रयजन्यताविशेषसम्बन्धेनाश्वमेधत्वादिघटितस्य कीर्तननाश्यतावच्छेदकत्वे तु गौरवमित्यलमप्रासङ्गिकेन । तद्वैचित्र्यमपि बन्धहेतुत्ववैचित्र्येऽपि संक्रमकरणादिकृतं परिणतप्रवचनानां सुज्ञानमिति । नन्वदृष्टकार्याणां देहादीनां मृतिमत्त्वेन "कारणानुरूपं कार्यम्" इतिवचनाचादृष्टस्य मूर्त्तत्वापत्तिरिति चेत् ? इष्टापत्तिः। अथामूर्त्तत्वेन सुखादिकार्याणां कथमिष्टापत्तिः निर्वाह्या इति चेत् ? न, कार्यानुरूपा कारणकल्पना तूपादानादिकारणस्थले एव, नादृष्टस्थले, सुखादिकं प्रति तस्य निमित्तकारणत्वात् , निमित्तकारणादौ च तत् कल्पने घटं प्रत्याकाशस्य बुद्ध्यादिकं प्रति नागरस्य मद्यपानादेश्च तत्कल्पनापत्तिरिति ।

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68