Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 51
________________ अनुयोगाचार्यश्रीमत्प्रेम विजयगणिगुम्फिता च्यम्, तत्र प्रमाणाभावात् । किञ्चादृष्टस्यात्मगुणत्वे सति सर्वदा बन्धाभावेन सर्वेषां मुक्तिप्रसङ्गः, विरोधेन च स्वपारतव्यानिमित्तत्वमपि न स्यात् । तथाहि - आत्मनः पारतत्र्यनिमित्तमदृष्टं न भवति घटस्वरूपवत् । स्वीकृतं च त्वया दृष्टस्यात्मगुणत्वमतः पारतन्त्र्यनिमित्तत्वमदृष्टस्य न भवितुमर्हति प्रमाणप्रतीतं चात्मनः पारतत्र्यं तथा चानुमानम्, आत्मा कर्मपरतत्रः हीनस्थानपरिग्रहवत्त्वात् मद्योद्रेकपारतत्र्याशुचिस्थानपरिग्रहवद्विशिष्टपुरुषवत् । हीनस्थानं हि शरीर - मात्मनो दुःखहेतुत्वात् न च देवशरीरे दुःखाभावात् भागासिद्धोऽयं हेतुरिति वाच्यम्, तस्यापि च्यवनसमयेऽतिदुःखहेतुत्वप्रसिद्धेः । यदधीन आत्मा तदेव वाऽदृष्टसंज्ञकं कर्मेति सिद्धं कर्मणः पौगलिकत्वमत्राप्यनुमानम्, तथा हि- पौगलिकं कर्मात्मनः पारतंत्र्यनिमित्तत्वात् कारागारवत् । न च निगडादौ व्यभिचार इति वाच्यम्, तस्य पारतंत्र्यस्वभावत्वात् यः खलु पारतंत्र्यस्वभावः स न पारतन्त्र्यनिमित्तं भवितुमर्हतीति । " अत्र सांख्या: प्रलपन्ति - सुष्टृक्तमदृष्टमात्मगुणो न भवतीति प्रधानपरिणामत्वात्तस्य तदुक्तं - “ प्रधानपरिणामः शुक्कं कृष्णं च कर्म" इति । तद्गगनारविन्दवन्मनोरथमात्रम्, प्रधानाभावेन तत्परिणामत्वस्यासंभवात् । तत्परिणामत्वेऽपि वात्मपारतत्र्यनिमित्तत्वाभावात् न कर्मत्वं तस्यान्यथा घटादावप्यतिप्रसक्तिः । न च प्रधानपारतन्त्र्यनिमित्तत्वात् कर्मत्वं तस्येत्यारे कणीयम् एवं रीत्या प्रधानस्यैव बन्धमोक्षयोः संभवे - नात्मकल्पनायाः वैयर्थ्यप्रसङ्गात् । न च बन्धमोक्षफलानुभवस्यात्मनि प्रतिष्ठानात् न तत्कल्पनावैयर्थ्यप्रसङ्ग इति वाच्यम्, ४०

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68