Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 53
________________ ४२ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता प्रयोगाश्चात्र-मूर्तमदृष्टं तत्सम्बन्धेन सुखादिसंवित्तराहारादिवत् । तथा मूर्तमदृष्टं तत्संसर्गेण वेदनोद्भवादग्निवत् । मूर्तमदृष्टमात्मव्यतिरिक्तत्वे सति परिणामित्वात् पयोवदिति । अहष्टस्य शरीरादेश्च परिणामित्वदर्शनात् नायमसिद्धो हेतुः। मूर्तमदृष्टं मूर्तस्य देहादेः बलाधानकारित्वात् यथा घटो निमित्तमात्रभावित्वेन बलमाधत्ते, एवं कर्मापि । तथा मूर्तमदृष्टं मूर्त्तन सक्चन्दनाङ्गनादिनोपचयलक्षणबलस्याधीयमानत्वात् घटवत्,यथा मूर्तेन तैलादिना बलस्थाधीयमानत्वात् कुम्भो मूर्तः, एवं सक्चन्दनाङ्गनादिनोपचीयमानत्वात् मूर्त कम्र्मेति, तथा मूर्तमदृष्टं देहादेः तत्कार्यस्य मूर्त्तत्वात् परमाणुवत् , यथा परमाणूनां कार्य घटादिकं मूर्त दृष्टमत एव तत्कारणीभूतानां परमाणूनामपि मूर्तता कल्प्यते, तद्वत् मूर्तस्य शरीरादेः कर्मणः कार्यत्वेन तस्यापि मूर्तता कल्प्यते । ननु देहादीनां कर्मकार्याणां मूर्तत्वेन मूर्त कर्म यद्वा सुखदुःखादीनां तत्कार्याणाममूर्तत्वेनामूर्त करेंत्यपि संशयो न कर्त्तव्यः, सुखादीनां न केवलं कर्मैव कारणं, किन्तु जीवोऽपि, सुखादीनां समवायिकारणं जीवः, असमवायिकारणं तु कर्म । इदमत्र हृदयं-सुखादेरमूतत्वेन समवायिकारणस्य जीवस्यामूर्त्तत्वमस्त्येव, असमवायिकारणस्य तु कर्मणः सुखाद्यमूर्तत्वेनामूर्तत्वं न भवत्यपीति नोक्तशङ्कावकाशः । अत एवासाभिरनुपदमेवोक्तं कार्यानुरूपा कारणकल्पना तूपादानकारणस्थले एव इति । नन्वमूर्तस्यात्मनः मूर्त्तिमताऽदृष्टेन सह कथमनुग्रहोपघातौ स्यातां ?, न च भवतः खङ्गादिभिः सह नभसोऽनुपग्रहोपघाताविति चेत् ? न, मूतैः मदिरादिभिः नागरादिभिश्चात्मधर्माणां बुद्ध्यादीनामनुग्रहोपघातदर्शनात् । यद्वा

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68