Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 40
________________ . कर्मसिद्धिः। हेतुमद्भावात् , तथा च परमार्थतः न केवलो जीवो मूर्तसुखदुःखानुभवनिमित्तः, किन्तु सुखदुःखानुभवनिमित्तं कर्म, तनिमित्तश्च सुखदुःखानुभव इति कुतो व्यभिचारः १, नेत्यर्थः। नन्वेवं मुक्तात्मनो व्यभिचारः, न च तस्यापि मूर्तता कल्पयितुं शक्या, अनादिकर्मसन्तानपरिणामापनत्वाभावादिति चेत् ? न, मुक्तात्मनि सुखदुःखनिबन्धनयोः सातासातयोरभावेन सुखदुःखानुभवाभावात् । सुखदुःखोभयनिमित्तत्वमेव मुक्तात्मनां निषिध्यते, न केवलं सुखनिमित्तत्वमपि, साहजिकनिरुपमेयसुखखरूपत्वात्तस्येति । अपि चापरिणामिकारणत्वेन सुखदुःखनिबन्धनभूतं मूर्तत्वं मुक्तात्मनि निषिध्यते, न तु परिणामिकारणत्वम्,मुक्तात्मानश्च निरुपमेयसुखं प्रति परिणामिकारणत्वेन कथं तेन सह व्यभिचारः ? । यदि स्वभावोऽपि मुक्तात्मवदिष्यते, तर्हि तस्यापि जीवत्वं सदा सुखित्वं च प्रसज्यते, तथा च स स्वभावः कथं स्यात् , केवलं नामान्तरेण मुक्तात्मा एवाभ्युपगतः स्यात्, न च तत्र नो विप्रतिपत्तिः, तदुक्तं"तस्स वि य तहाभावे, जीवत्तं चेव पावई वुत्तं । तहा कहं णु सो सहावो, सदा सुहित्तिपसंगोय।१।” इति । अत्र चेत्थमनुमानं स्वभावः सुखदुःखजनको न भवति, अपरिणामित्वे सति अमूर्तत्वात् यथा गगनम् । ननु गगनसापेक्षाकारणत्वेन सुखदुःखनिबन्धनसमस्त्येवेति कथं न साध्यविकलता निदर्शनस्येति चेत् ? न, अपेक्षाकारणस्य नियापारत्वात् परमार्थतोऽकारणत्वात् , अन्यथा निखिलविश्वस्य कारणताप्रसङ्गः, निर्व्यापारत्वाविशेषादिति । नाप्यका

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68