Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 41
________________ अनुयोगाचार्य श्रीमत्प्रेम विजयगणिगुम्फिता रणतास्वभावः कारणमन्तरेण कार्यानुपपत्तेः कारणाभावस्य समानत्वेन युगपन्निखिल विश्वोत्पादप्रसङ्गः, शशविषाणोत्पादप्रसङ्गश्च । अपि च यन्निर्हेतुकं तदाकस्मिकमेव प्रादुर्भवति आकस्मिकं च नाभ्रादिविकारवदादिमत्प्रतिनियताकारं भवति, दृश्यते चादिमत्प्रतिनियताकारं शरीरादिकार्यजातमतो नाकस्मिकं किन्तु कर्महेतुकमेवेति । अनुमानं चात्र शरीरादिकार्य - ग्रुपकरणसहित कर्तृनिर्वर्त्य मेवादिमत्प्रतिनियताकारत्वात् घटादिवत् । न च घटाद्यवस्थायामदृष्टमन्तरेणान्यदुपकरणमस्ति, यदेवोपकरणं तदेव कर्मेति । वस्तुधर्मश्चेत् ? मूर्तवस्तुनोऽमूर्तवस्तुनो वा ?, आद्ये सिद्धसाधनमस्माभिरपि पुद्गलास्तिकाय पर्यायत्वेनादृष्टस्याभ्युपगमात् । अमूर्तवस्तुनो धर्मश्चेत् ? नासौ शरीरकारणममूर्तत्वादेव ज्ञानादिवत् गगनमिव वेत्युक्तपूर्वमिति । तस्मात् न स्वभावो भावरूपः । नाप्यभावरूपः, तथाहि - सहि अभावस्वरूपस्वभावः एकरूपः चित्ररूपो वा ?, एकरूपचेत् ? तुच्छैकस्वभावत्वेन न कार्यनिष्पत्तिः, यथा भेकजटाभारादिकारणाभावतः भेकजटादिर्न भवति तद्वत्कार्यनिष्पत्तिरपि न भवतीत्यर्थः, अन्यथा भेकजटादिकमपि स्यात् तुच्छैकस्वभावकारणत्वाविशेषात् । ननु मृत्पिण्डरूपाभावादेव घटो जायते, ततः कथमुच्यते तुच्छैकस्वभावत्वे न कार्यसिद्धिः, मृत्पिण्डरूपोऽभावो नैकान्तेन तुच्छरूपः स्वरूपभावात् । यदि एवं तर्हि अभावस्य तुच्छरूपता कथमिति चेत् ? घटलक्षणं भावमाश्रित्य स्वभावस्य तुच्छरूपता बोध्या, मृत्पिण्डस्य तु घटजनकत्वान्नोक्तदोषावकाश इति चेत् ? न, भावाभावयोः विरोधात्, तथाहि य एव मृत्पिण्डस्य स्वरूपभावः स एव ३०

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68