Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 34
________________ कर्मसिद्धिः। २३ "यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते ॥१॥" विपाककालस्य कावस्थाविशेषरूपत्वेन न कालवादप्रसक्तिः, कर्मसन्तानस्यानादित्वेन न कर्मकारणापेक्षा वैयच्या, विभिन्न विभिन्नकार्यजनकविचित्रशक्तियोगात् भोग्यमपि विचित्रम् , कर्मवैचित्र्यानभ्युपगमे चित्रभोगस्याप्यनुपपत्तेः । नैयायिकादिभिरपि कचिदुद्भूतरूपमेव कचिचानुभूतरूपमेव, परमाणुसाद्भूतानां च शल्यादिबीजानां शाल्यङ्कुरजनकत्वमेवेति नियमेऽदृष्टस्यैवाङ्गीकृतत्वेन सर्वत्र तद्धेतुत्वस्यौचित्यात् तस्मान नियत्यादिकं विश्ववैचित्र्यजनकम् । यदुक्तं"चित्रभोग्यं तथा चित्रात्कर्मणोऽहेतुतान्यथा । तस्य यस्माद्विचित्रत्वं,नियत्यादेनं युज्यते॥१॥” इति। किञ्च भो नियतिवादिन् ! तवाभिमता नियतिः नियतरूपा अनियतरूपावा?, नियतरूपाचेत् ? नियतिजन्यत्वेनाभिमतानां कार्याणां समानता स्यात, नियतेरेकरूपत्वेनाभ्युपगमात्, न कारणभेदमन्तरेण कार्यभेदो भवतीति । अनियतरूपा चेत् ? "घटो यदि पटजनकान्यूनानतिरिक्तकारणजन्यः स्यात्तदा पटः एव स्यात्, घटजनकं यदि पटं न जनयेत् तर्हि पटजनकात् भिद्येत" इति न्यायात नियतेः विचित्रताभ्युपगमनीया स्यात्, न चेष्टापत्तिः कर्तुं शक्यते, जलत्वेन समानस्सापि जलस्याकाशपतनानन्तरम्परेंतरभूसम्बन्धमन्तरेण यथा न

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68