Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 16
________________ कर्म्मसिद्धिः । तस्मादवश्यमेष्टव्य- मत्र हेत्वन्तरं परैः । तदेवाहष्टमित्याहु - रन्ये शास्त्रकृतश्रमाः ॥ २ ॥” इति । एवमाद्यबालशरीरं शरीर पूर्वकमिन्द्रियादिमत्त्वात् युवशरीरवत् । न च पूर्वभवशरीरपूर्वकमित्यारे कणीयम्, तस्थायान्तरालगतावभावात् । न चाशरीरिणो गर्भावस्थायां शरीरपरिग्रहों युक्तः, तन्नियामककारणाभावात् । न च स्वभावस्तनियामक इति वक्तुं शक्यते, स्वभावस्य निराकरिष्यमाणत्वात् तसाद् यदेव नियामकं तदेव कर्मेति । तदुक्तं — "बालसरीरं देहान्तरपुवं इन्द्रियाइमत्ताओ । जह बालदेहपुवो, जुवदेहो पुत्रमिह कम्मं ॥ १ ॥” इति । तथा दानादिक्रिया फलवती चेतनारब्धत्वात् कृष्यादिक्रियावदित्यनुमानेनाप्यदृष्टसिद्धिः । चेतनाऽनारब्धत्वेन परमाण्वादिक्रियायां नातिप्रसङ्गः । न च चेतनारब्धाऽपि काचित्कुष्यादिक्रिया फलाभाववती भवत्यतोऽनैकान्तिक इति शक्यते प्रलपितुम्, फलोद्देशेनैवारम्भात्, यद्वा देवादिसामग्रीविकलत्वेन फलाभाववत् मनः शुद्ध्यादिसामग्र्यभावविशिष्टदानादिक्रियाया अपि फलाजनकत्वात् । ननु कृष्यादिक्रियायाः दृष्टधान्यादिफलवत् दानादिक्रियाया अपि मनःप्रसच्यादिदृष्टफलमेवास्तु किमदृष्टकल्पनयेति चेत् ? तर्हि तस्या अपि क्रियारूपत्वेन फलावश्यंभावात्, ततोऽवश्यमदृष्टरूपं फलमेष्टव्यम् । ननु मनःप्रसत्त्यादिरूपायाः क्रियायाः दानादिक्रियारूपं दृष्टफलमेवास्तु दृष्टमात्रेणैव निर्वाहे सति किमदृष्टकल्पनयेति चेत् ? न, मनःप्रसत्यादिक्रियां प्रति दानादिक्रियायाः निमि

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68