Book Title: Karmasiddhi
Author(s): Premvijay Gani
Publisher: Manchubhai Jivanchandra Zaveri

View full book text
Previous | Next

Page 22
________________ कर्मसिद्धिः। अत्राह स्वभाववादी कालवादिनं प्रति, भो कालवादिन् ! विश्ववैचित्र्यं कालकृतं त्वयोक्तं तदस्मद्युक्तिमुद्रेण घट इव नक्ष्यति, तथा हि-आम्रराजादनीपिचुमन्दादयो निखिला अपि वनस्पतयः स्वभावत एव मधुमासादौ फलप्रदा भवन्ति, न कालविलम्बात् , यत्चयोक्तं-"अन्यथा कथं न फलीभवन्ति ये मधुमासादौ फलप्रदाः ते भाद्रपदादौ" तदपि न रमणीयम् , भाद्रपदादौ तादृक् स्वभावाभावात् , अन्यथा पिचुमन्दे आम्रफलमाने पिचुमन्दफलं, हिंसाधशुभक्रियातः स्वर्गादिकं, सुपात्रदानादिक्रियातः नरकादिकं, मृदः पटादिकं, तन्खादितः घटादिकं, सिकतातः तैलं रज्जुश्व, जलात् नवनीतं, करतले रोमराजयः, महिलायाः श्मश्रु, वन्ध्यायाः पुत्रोत्पत्तिः, पुरुपस्थ गर्भाधानं, शर्कराद्राक्षेक्षुरसगुडगोक्षीरादिमधुरपदार्थेषु कटुत्वं, घोषातकीप्रमुखकटुकपदार्थसार्थेषु माधुर्य, गोक्षीरकुन्देन्दुतुषाररजतबलाकादिवस्तुजातेषु श्यामत्वं, मयूरपिच्छादौ चित्ररूपाभावः, सर्प निर्विषत्वं, पर्वते चलत्वं, वायौ स्थिरत्वं, मत्स्यतुम्बयोर्भूमौ तरणं, द्विकस्य जले तरणं, पक्षिगणस्य गगने गमनाभावः, वह्नौ तिर्यग्गमनं शीतत्वं च, नागरे कफजनकत्वं, गुडे पित्तजनकत्वं, हरीतक्यां विरेचनाभावः, रवितापे शीतत्वं, चन्द्रे चोष्णत्वमित्येवंरूपेण वैपरीत्येनापि कार्यजातं कदाचिदुपलभ्येत कालस्य समानत्वात् , न च तथोपलभ्यते, किन्तु मृदो घटः, तन्तुभ्यः पटः, शकरायां माधुर्यमित्यादिप्रतिनियतरूपेणेति । एवं बदर्याः कण्टकः तीक्ष्णः वक्रश्चैकः सरलोऽन्यः, वर्तुलं फलं तथा कुत्रचित् शिलाखण्डे प्रतिमारूपं विद्यते तच्च कुश्मागरुचन्दनविलेपाद्यनुभवति, धूपाद्यामोदं

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68