Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay

View full book text
Previous | Next

Page 330
________________ कल्प ॥ ४॥ दीपिका सङ्गतम् , यतस्तदधिकरणादिदोषाद्यभावेन गृहिज्ञातमात्रापेक्षया पर्युषणाकरणं न तु सांवत्सरिकप्रतिक्रम- दीपिका णादिविशिष्टं पर्वापि, अन्यथा “आसाढइपुण्णिमाए पज्जोसविंति एस उसग्गो सेसकालं पज्जोसविताणं सव्वो अववाओ"त्ति श्रीनिशीथचूर्णिदशमोद्देशकवचनादाषाढपूर्णिमायामौत्सर्गिकमेव पर्व करणीयं स्यात् नापवादिकान्यपराणि, अथवा 'इत्थ य पणगं पणगं, कारणिअं जा सवीसइमासो। सुद्धदसमीट्ठिआणं, आसाढीपुण्णिमोसरणं ॥१॥' इति श्रीपर्युषणाकल्पनियुक्त्यादिवचनादाषाढशुद्धदशम्या आरभ्य पञ्चसु पञ्चसु दिनेषु गतेषु पर्युषणा कृता विलोक्यते, तथाविधाने च पर्वणोऽनयत्यात्। “तत्थ णं बहवे भवणवइवाणमंतर-जोइसिआ-वेमाणिआ देवा चाउम्मासिअ पाडिवएसु पज्जोसवणाए अण्णेसु अ बहसु जिणजम्मणनिक्खमणनाणुप्पायपरिनिव्वाणमाइएसु अ देवकज्जेसु अ देवसमुदएसु अ देवसमितीसु अ देवसमवाएसु अ देवपओअणेसुअएगयातोसहिआ समुवागया समाणा पमुइअपक्कीलिआ अट्ठाहिया रूवाओ महामहिमाओ करेमाणा पालेमाणा विहरंति"त्ति श्रीजीवाभिगमोक्तामष्टाह्निकां देवादयः क कुर्युः अतो भाद्रसितपञ्चम्या अर्वाग् आषाढपूर्णिमाया आरभ्य ये येपर्युषणाप्रकारास्ते सर्वेऽपि श्रीपर्युषणाकल्पकर्षणपूर्वकवर्षासामाचारीस्थापनरूपा एव, न तु सांवत्सरिकप्रतिक्रमणादिविशिष्टाः। नन्वेते पर्युषणाप्रकाराः सम्प्रति । कथं न क्रियन्ते ? उच्यते-व्यवच्छिन्नत्वात् । तथाऽभिवर्द्रितवर्षे विंशत्यादिदिनै क्रियमाणगृहिज्ञातावस्थानरुपपर्युषणाप्रकारस्याऽपि व्यवच्छिन्नत्वात् सम्प्रति तदपि कर्तुमनुचितं, तर्हि प्रतिक्रमणादिकृत्यानि तु दूरापास्तान्यवेति। अतो भाद्रपद एव पर्युषणापर्व विधेयं ततश्च कालावग्रहोऽपिजघन्यतो भाद्रपदसितपश्च

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378