Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay

View full book text
Previous | Next

Page 359
________________ | आउहित्तए ति कारयितुं आउट्टिधातुरागमिकः करणार्थे ॥ ४९ ॥ तवोकम्मं ति मासिकादि तपाकर्म | अत्र प्रत्यपायान-समर्थोऽसमर्थावाऽयं वैयावृत्त्यकरोअन्योऽवावैयावृत्त्यकरोऽस्ति नास्ति वा पारणकादियोग्यं क्षेत्रमस्ति नास्ति वेत्यादिकान् आचार्या एव विदन्ति ॥५०॥ अपश्चिमेत्यादि अपश्चिम-चरमं मरणं अपश्चिममरणं न पुनर्यत्प्रतिक्षणमायुर्दलिकानुभवलक्षणावीचिकमरणं तदेवान्तोऽपश्चिममरणान्तस्तत्रभवाआर्षत्वादुतरपदवृद्धावपश्चिममारणान्तिकी साचासौ संलेखनाच संलिख्यते-कृशीक्रियते शरीरकषायाद्यनयेति अपश्चिममरणान्तिकसंलेखनासा च द्रव्यभावभेदभिन्ना 'चत्तारि विचित्ताई'इत्यादिकाऽपश्चिममारणान्तिकसंले खना] तस्या जूसणे त्ति जुषणा-सेवा तयाझुसिए त्तिक्षपिताङ्गोऽत एव प्रत्याख्यातभक्तपानः पादपोपगतःकृतपादपोपगमोऽतएव कालं-जीवितकालं मरणकालं वाऽनवकाङ्क्षन्-अनभिलषन् विहाँ इच्छेत् , अत्र च प्रत्यपाया निस्तारकोऽयं नवा समाधिपानकं निर्यामका वा सन्ति न वेत्यादयः, क्षपकस्य हि उदरमलशोधनार्थ त्वेलानागकेशरतमालपत्रमिश्रसशर्करक्वथितशीतलक्षीरलक्षणं समाधिपानकं पाययित्वा पुगफलादिद्रव्यैर्मुधुरविरेचः कार्यते, निर्यामकास्तूद्वर्तनाद्यर्थमष्टचत्वारिंशत् , परिठ्ठावित्तएत्ति व्युत्स्रष्टुं धर्मजागरिकां-आज्ञा १ पाय २ विपाक ३ संस्थानविचय ४ भेदधर्मध्यानविधानादिना जागरणं धर्मजागरिका तां जागरयितुं-अनुष्ठातुमिति ॥५१॥ वासावासं प० भिक्खू इच्छिज्जा वत्यं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अन्नयरं वा

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378