Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
कल्प
दीपिका
॥ २३ ॥
विद्युन्मालिसमर्पितश्रीमहावीरदेवाधिदेवप्रतिमार्चकगान्धारश्रावक समर्पितगुटिका भक्षणतो जाताऽद्भूतरुपायाः सुवर्णगुटिकाया देवाधिदेवप्रतिमायुतायाः हर्त्तारं मालवदेशभूपं चतुर्दशभूपसेव्यं चण्डप्रद्योत - राजानं श्रीदेवाधिदेवप्रतिमाप्रत्यानयनोत्पन्नसङ्ग्रामे बद्ध्वा पञ्चादागच्छन् दशपुरे वर्षासु तस्थौ, वार्षिकपर्वणि च स्वयं उपवासं चक्रे, भूपाऽऽदिष्टसूपकारे भोजनार्थं पृष्टेन चण्डप्रद्योतेन विषभिया श्राद्धस्य 'ममाऽप्यथोपवास' इति प्रोक्ते धूर्तसाधर्मिकेऽप्यस्मिन् क्षमितेन प्रतिक्रमणशुद्धिरिति तत्सर्वस्वप्रदानतस्तवाले मम दासीपतिरित्यक्षरस्थगनाय स्वमुकुटप्रदानतञ्च श्रीउदयनभूपतिना चण्डप्रद्योतः क्षामितोऽत्र च श्री उदयनभूपस्यैवाऽऽराधकत्वं तस्यैवोपशान्तत्वात् । क्वचिच्चो भयोरपि आराधकत्वं तद्यथा
अन्यदा श्रीमहावीरः कौशाम्ब्यां समवासरत् । वन्दितुं तत्र चन्द्रार्कौ, सविमानौ समीयतुः ॥१॥ तदा च चन्दना ज्ञात्वा, दक्षाऽस्तसमयं ततः । निर्गत्याऽगान्निजस्थाने, तत्रैवाऽस्थान्मृगावती॥२॥ स्वस्थानं गतयोश्चन्द्रसूर्ययोरथविस्तृते । तमस्यगाद् द्रुतं भीता सा साध्वीनां प्रतिश्रये ॥३॥ तत्रेर्यापथिक साथ, प्रतिक्रम्य प्रवर्तिनीं । शयनस्थां प्रणम्योचे, मन्तुमें क्षम्यतामयम् ॥४॥ चन्दना चन्दनाभाभिर्वाणीभिस्तामथाऽभ्यधात् । भद्रे ! भद्रकुलोत्पन्ने ! किं ते साम्प्रतमीदृशम् ॥५॥ साप्चे मका पापं कृतं दुष्कृतमेतकम् । करिष्ये नेदृशं भूयः इत्युक्त्वा न्यपतत्पदोः ॥६॥
1
समाचारी
॥ २३ ॥

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378