Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
प्रपतन-प्रस्खलनं ततः श्रमणास्तान् तत्रैव दिगादौ प्रतिजामप्ति -गवेषयन्ति, अकथयित्वा तु गतानां दिगपरिज्ञानात् कथं ते तेषां सारां कुर्युरिति ॥ ६१॥ वासावासं प० कप्पइ निग्गंथाण वा निगंथीण वा जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए अंतरा वि असे कप्पइ वत्थवए; नो कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ ६२ ॥
व्याख्या-जावचत्तारि पंचेत्यादि वर्षाकल्पौषधवैद्यार्थ ग्लानसाराकरणार्थ वा यावत् चत्वारि पञ्च वा योजनानि गत्वा प्रतिनिवर्तेत-तत्प्राप्तौ च तदैव व्याघुटयेत, न तुयत्र लब्धं तत्रैव वसेत्, स्वस्थान प्राप्तुमक्षमः चान्तरापि वसेत् ,एवं हि वीर्याचारःआराधितः स्यात्, तं रयणिति यत्र दिने प्रस्तुतलब्धांतां रात्रि तत्रैव नाऽतिक्रमयेत् किन्तु यदा तत्प्राप्तं तदैव निर्गत्य बहिस्तिष्ठेत्, कारणे तु तादृशे तत्रापि वसेदिति हृदयं ॥ १२ ॥ इति पर्युषणासामाचारीमभिधाय तत्पालनायाः फलमाह
इच्चइयं संवच्छरिअं थेरकप्पं अहासुतं अहाकप्पं अहामग्गं अहातचं सम्मं कारणं फासित्ता पालित्ता सोभित्ता तीरित्ता किहित्ता आराहित्ता आणाए अणुपालित्ता अत्यंगइआ समणा निगंथा तेणेव भवग्गहणेणं सिझंति बुझंति मुच्चंति परिनिधाइंति सधदुक्खाणमंतं करेंति,

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378