Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay

View full book text
Previous | Next

Page 375
________________ [अथ प्रशस्तिः ] गुणगणमणिगेहे श्रीतपागच्छसिन्धौ, कुमततिमिरभेदे जागरूकप्रभावाः। विजयिविजयदानाः सरिसूर्या बभुवुः, त्रिभुवनजनपदोल्लास कस्वभावाः ॥१॥ तत्पट्टोदयसानुमालिशिखरे भास्वत्प्रभाभासुरा, जाता श्रीगुरुहीरहीरविजया यदेशनारञ्जितः । आपाथोधितटं जलस्थलवियत्माणस्पृशां पालनं, पृथ्व्यां कारितवानऽकम्बरमहाभूपालचूडामणिः ॥ २ ॥ तत्पट्टाम्बुधिभासनैकशशिनः संजज्ञिरे सूरयः, श्रीमन्तो विजयादिसेनगुरुवः मोढमातष्ठास्पदम् । यैः शाहेः पुरतः कुवादिनिवहानिर्जित्य दर्पोदुरान् । कीर्तिस्तम्भ इच व्यधायि गिरिजाप्राणेशचैलच्छलात् ॥ ३॥ सुविहितमुनिन्दाः सेव्यमानाऽधिपया, जिनगुरुजनवाक्याराधनोद्भूतपमाः विजयिविजयसेन-श्रीगुरोः प्रौढपट्टे । विजयतिलकसंज्ञा जज्ञिरे मरिचन्द्राः॥४॥ तेषां पट्टेऽवदातयुतिरुचिररुचिजित्वरैः शोभमाना, रणाद्वैराग्यमुख्यैविमलतरगुणैर्दत्तविश्वप्रमोदैः । निशेषाचार्यचक्रावनिरमणगणे सार्वभौमायमाना, राजन्ते श्रीसनाथाः सविजयविजयानन्दसूरीन्द्रमुख्याः ॥५॥ त्रिभुवनजनसेव्याः सर्वशास्त्राम्बुराशौ, जलधिशयनदेश्याः श्रीतपागच्छधुर्याः। विमलविमलहर्षा रेजिरे वाचकेन्द्राः, सकलगुणगरिष्ठाः प्राप्तभूरिप्रतिष्ठाः ॥ ६॥ तत्पादाम्भोजभङ्गो बुधजयविजयः, स्वस्य चित्तप्रमोद-माप्यर्थ मुग्धबुद्धयालिखदतिसुगमां दीपिका कल्पसत्काम् ।

Loading...

Page Navigation
1 ... 373 374 375 376 377 378