Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
कल्प दीपिका ॥२४॥
समाचारी
| पमज्जणा कार्येति शेषः । यस्मिन् उपाश्रये स्थिता साधवस्तं प्रातःप्रमार्जयन्ति १, पुनर्भिक्षागतेषु साधुषु २ । प्रतिलेखनाकाले तृतीयप्रहरान्ते ३ चेति वारत्रयं प्रमार्जयन्ति वर्षासु, कश्चित्तुवारचतुष्टयं मन्यते तद्विचार्य, चूर्णौ वारत्रयस्योक्तत्वात् , ऋतुबद्धे तु वारदयं, असंसक्ते चायं विधिः, संसक्ते तु पुनः पुनः प्रमार्जयन्ति शेषोपाश्रयद्वयं तु प्रतिदिनं प्रतिलिखन्ति-प्रत्यवेक्षन्ते, मा कोऽपि तत्र स्थास्यति इति तृतीयदिने पादपोञ्छनकेन प्रमाजेयन्ति, अतएवोक्तं वेउव्विआ पडिलेह त्ति ॥ ६० ॥ वासावासं पज्जासवियाणं कप्पइ निग्गंथाणं वा २ अन्नयरिं दिसिंवा अणुदिसिंवाअवगिज्झियर भत्तपाणं गवेसित्तए; से किमाहु भंते ! ओसन्नं समणा भगवंतो वासासु तवसंपउत्ता भवंति तवस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज्ज वा तामेव दिसिं वा अणुदिसिं वा समणा भगवंतो पडिजागरंति ॥ ६१॥ __ व्याख्या-'अन्नयरिं' इत्यादि अन्यतरां दिशं पूर्वादिकां अनुदिशं आग्नेय्यादिकां विदिशं अवगृह्य, उद्दिश्य अहममुकां दिशं अनुदिशं वा यामि इति अन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुं विहर्त्त कल्पते। से किमाहु भन्ते-किमत्र कारणं गुरुराह-ओसन्नं प्रायेण श्रमणा भगवन्तो वर्षासु तपःसंप्रयुक्ताः प्रायश्चितवहनार्थ संयमार्थं स्निग्धकाले मोहजयाथै वा षष्ठादितपश्चारिणो भवन्ति, ते च तपस्विनो दुर्षलास्तपसैव कृशाना अत एव क्लान्ताः सन्तः कदाचित् मुर्छयेयुर्वा मूर्छा-इन्द्रियमनोवैकल्यं प्रपतेयुर्वा |
॥ २४॥

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378