Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
कल्प
समाचारो
दीपिका 1
॥ २२ ॥
विनाशयद्वहिःकर्ण्यते, तबदयमप्यनन्तानुषन्ध्याऽऽविष्टोविनष्ट इति।तथाऽत्र अन्योऽपि दृष्टान्तः।। स चैवं-
न मुश्चति क्रुधं यो हि, श्रीमद्वार्षिकपर्वणि। अपाङ्क्तेयः स सङ्के स्यान् महास्थाने यथा द्विजः॥१॥ | तथा हि खेडवास्तव्यो, रुद्रो नाम द्विजः पुरा। वर्षाकाले हलं लात्वा, केदारान् कष्टुमभ्यगात्॥२॥ बलीवदों गलिस्तस्य, कर्षतः समुपाविशत् । तोत्रेण ताडयामास, ततस्तं निर्दयो द्विजः ॥३॥ तथाप्यनुत्थिते तस्मिस्तोत्रभन्ने क्रुधा ज्वलन् । केदारमृत्तिकाखण्डैराजधान समन्ततः ॥४॥ केदारत्रयमृत्खण्डैराहत्याऽऽहत्य सर्वथा । विधाय मृत्तिकाकूटं, मुखश्वासं रुरोध सः ॥५॥ | तावत्कदर्थयामास, मृतो यावदयं गलिः। मृतं मत्वा द्विजः पश्चात् , पश्चात्तापं भृशं व्यधात् ॥६॥ महास्थानेषु गत्वाऽसौ, निजवृत्तमचीकथत् । अनुपशान्तकोपत्वादपान्तेयः कृतश्च तैः ॥७॥
यथा स विप्रः किल तीवकोपात्, कृच्छ्रैशोध्यो बहिरेव चक्रे।
कोपं न यः पर्वदिनेऽपि जह्यात्, स सङ्घबाह्यो जिनवाक्यमेतद् ॥८॥इति द्विजदृष्टान्तः उपशान्तोपस्थितस्य च मूलं दातव्यमिति ।।५८॥ वासावासं पणं इह खलु निग्गंधाण वा २ अज्जेव कक्खडे कडुए विग्गहे समुप्पज्जिज्जा; सेहे

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378