Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
क्षमस्तस्य कर्तर्या केशाः कल्पयितव्याः । 'पक्खिआ आरोवणे'त्ति पाक्षिकं बन्धदानं संस्तारकदवरकाणां पक्षे पक्षे बन्धा मोक्तव्याः प्रतिलेखितव्याश्च, अथवाऽरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सदा वर्षासु विशेषतः । मासिएत्ति यदि मुण्डनं तदा मासे मासे कार्य, अद्धमासिएत्ति यदि कर्तर्या कारयेत् तदा पक्षे पक्षे गुप्तं चेति प्रायश्चित्तं वा अनयोर्लघुगुरुरूपं देयम् । छम्मासिएत्ति षण्मासिको लोचो जराजर्जरत्वेन स्थविराणां असामर्थ्याद् दृष्टिरक्षार्थं च अर्थात् तरुणानां चातुर्मासिकः, संवच्छरिए त्ति संवत्सरे वर्षासु भवः सांवत्सरिको वा लोचः, स्थविरकल्पे स्थविरकल्पस्थानां [ ध्रुवो लोच इति ] ॥ ७॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंधाण वार परं मज्जोसवणाओ अहिगरणं वइत्तए,जेणं निग्गंथो वा २ परं पज्जोसवणाओ अहिगरणं वयइसे णं अकप्पेणं अज्जो वयसीति वत्तव्वं सियाः जेणं निग्गंथोवा परंपज्जोसवणाओअहिगरणंवयइ सेणं निज्जूहियवे सिया॥५॥ ___ व्याख्या-'अहिंगरणं वइत्तए' इत्यादि अधिकरणं-राटिस्तत्करणं वचनमपि अधिकरणं [वइत्तए त्ति वदितुं] अकप्पेणं ति अकल्पेन-अनाचारेण वदसीति स वक्तव्यः, पर्युषणापर्वदिनाद्धि प्राक् तत्र दिने वा यदि अधिकरणमुत्पन्नं तत्पर्युषणायां क्षामितं, यत्तु त्वं पर्युषणांतः परमप्यधिकरणं वदसि सोऽयमकल्प्य इति भावः, निज्जूहियव्वे त्ति ताम्धुलिकपत्रवत् गच्छाहिः कर्त्तव्यः, ताम्बुलिकेन यथा विनष्टं पत्रमन्यानि

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378