Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
कल्प दीपिका ॥ २१ ॥
तं वर्णि उवायणावित्तए, अजेणं खुरमुंडेण वा लुकासरएण् वा होयत्वं सिया; पक्खिया समाचारी आरोवणा; मासिए खुरमुंडे अद्धमासिए कत्तरिमुंडे; छम्मासिए लोए;संवच्छरिए वा थेरकप्पे॥५७॥
व्याख्या-परं पज्जोसवणाओ गोलोमप्पमाणमित्तेत्यादि पर्युषणातः परं आषाढचतुर्मासाऽनन्तरं | गोलोममात्रा अपि शिरसि मुखे च केशा न स्थापनीयाः 'धुवलोओउ जिणाणं निच्चं थेराण वासासुत्ति वचनात् यावत्तां रजनीं भाद्रशुक्लपञ्चमीरात्रि उवायणावित्तए त्ति अतिक्रमयितुं न कल्पते, अयमाशयः-यदि क्षमस्तदा वर्षासु नित्यं लोचं कारयेत् अक्षमोऽपि तां रात्रि नोल्लङ्घयेत्, इदानीं तु भाद्रसितचतुर्थीरात्रिमिति, तद्राबेरागेव लोचं कारयेदित्यर्थः, अकृते हि लोचे M पर्युषणाप्रतिक्रमणमपि न कल्पते इति, केशेषु हि अप्कायो लगति स च विराध्यते तत्संगाच्च षट्पदिकाः ।
समुर्च्छन्ति ताश्च कण्डूयमानाः खण्डयतिअतो गोलोममात्रा अपि केशा स्थापयितुंन कल्पन्ते, यदि क्षुरेण मुण्डापयति कर्ता वा कर्त्तयति तदाऽऽज्ञाभङ्गोऽनवस्थामिथ्यात्वं संयमात्मनोविराधना षट्पदिका छिद्यन्ते नापितश्च पश्चातकर्म करोति शासनापभ्राजना चेति लोच एव श्रेयान , अथ यदि लोचे कृते ज्वराद्युपद्रवः स्यादसहिष्णोर्बालो वा रुद्यात् धर्म वा त्यजेत् ततो न तस्य लोचः कार्य, कित्वसौ क्षुरेण मुण्डनीयः, इत्येतदेवाह अजेणेत्यादि आर्येण-साधुना लुचितशिरोजेन वा अपवादतः क्षुरमुण्डेन वा भवितव्यं, तत्र प्रासुकजलेन शिरः प्रक्षाल्य नापितस्यापि हस्तक्षुरक्षालनाय तदेवोदकं देयं, यस्तु व्रणादिमच्छिराःक्षौरेप्य

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378