SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ क्षमस्तस्य कर्तर्या केशाः कल्पयितव्याः । 'पक्खिआ आरोवणे'त्ति पाक्षिकं बन्धदानं संस्तारकदवरकाणां पक्षे पक्षे बन्धा मोक्तव्याः प्रतिलेखितव्याश्च, अथवाऽरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सदा वर्षासु विशेषतः । मासिएत्ति यदि मुण्डनं तदा मासे मासे कार्य, अद्धमासिएत्ति यदि कर्तर्या कारयेत् तदा पक्षे पक्षे गुप्तं चेति प्रायश्चित्तं वा अनयोर्लघुगुरुरूपं देयम् । छम्मासिएत्ति षण्मासिको लोचो जराजर्जरत्वेन स्थविराणां असामर्थ्याद् दृष्टिरक्षार्थं च अर्थात् तरुणानां चातुर्मासिकः, संवच्छरिए त्ति संवत्सरे वर्षासु भवः सांवत्सरिको वा लोचः, स्थविरकल्पे स्थविरकल्पस्थानां [ ध्रुवो लोच इति ] ॥ ७॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंधाण वार परं मज्जोसवणाओ अहिगरणं वइत्तए,जेणं निग्गंथो वा २ परं पज्जोसवणाओ अहिगरणं वयइसे णं अकप्पेणं अज्जो वयसीति वत्तव्वं सियाः जेणं निग्गंथोवा परंपज्जोसवणाओअहिगरणंवयइ सेणं निज्जूहियवे सिया॥५॥ ___ व्याख्या-'अहिंगरणं वइत्तए' इत्यादि अधिकरणं-राटिस्तत्करणं वचनमपि अधिकरणं [वइत्तए त्ति वदितुं] अकप्पेणं ति अकल्पेन-अनाचारेण वदसीति स वक्तव्यः, पर्युषणापर्वदिनाद्धि प्राक् तत्र दिने वा यदि अधिकरणमुत्पन्नं तत्पर्युषणायां क्षामितं, यत्तु त्वं पर्युषणांतः परमप्यधिकरणं वदसि सोऽयमकल्प्य इति भावः, निज्जूहियव्वे त्ति ताम्धुलिकपत्रवत् गच्छाहिः कर्त्तव्यः, ताम्बुलिकेन यथा विनष्टं पत्रमन्यानि
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy