SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ कल्प समाचारो दीपिका 1 ॥ २२ ॥ विनाशयद्वहिःकर्ण्यते, तबदयमप्यनन्तानुषन्ध्याऽऽविष्टोविनष्ट इति।तथाऽत्र अन्योऽपि दृष्टान्तः।। स चैवं- न मुश्चति क्रुधं यो हि, श्रीमद्वार्षिकपर्वणि। अपाङ्क्तेयः स सङ्के स्यान् महास्थाने यथा द्विजः॥१॥ | तथा हि खेडवास्तव्यो, रुद्रो नाम द्विजः पुरा। वर्षाकाले हलं लात्वा, केदारान् कष्टुमभ्यगात्॥२॥ बलीवदों गलिस्तस्य, कर्षतः समुपाविशत् । तोत्रेण ताडयामास, ततस्तं निर्दयो द्विजः ॥३॥ तथाप्यनुत्थिते तस्मिस्तोत्रभन्ने क्रुधा ज्वलन् । केदारमृत्तिकाखण्डैराजधान समन्ततः ॥४॥ केदारत्रयमृत्खण्डैराहत्याऽऽहत्य सर्वथा । विधाय मृत्तिकाकूटं, मुखश्वासं रुरोध सः ॥५॥ | तावत्कदर्थयामास, मृतो यावदयं गलिः। मृतं मत्वा द्विजः पश्चात् , पश्चात्तापं भृशं व्यधात् ॥६॥ महास्थानेषु गत्वाऽसौ, निजवृत्तमचीकथत् । अनुपशान्तकोपत्वादपान्तेयः कृतश्च तैः ॥७॥ यथा स विप्रः किल तीवकोपात्, कृच्छ्रैशोध्यो बहिरेव चक्रे। कोपं न यः पर्वदिनेऽपि जह्यात्, स सङ्घबाह्यो जिनवाक्यमेतद् ॥८॥इति द्विजदृष्टान्तः उपशान्तोपस्थितस्य च मूलं दातव्यमिति ।।५८॥ वासावासं पणं इह खलु निग्गंधाण वा २ अज्जेव कक्खडे कडुए विग्गहे समुप्पज्जिज्जा; सेहे
SR No.600394
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorVinayvijay, Mafatlal Zaverchand Gandhi
PublisherYashovijay Pustakalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy