Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
वासावासं प० नो कप्पइ निग्गंथाण वा निग्गंथीण वा अणभिग्गहिअसिज्जासणिएणं हुत्तए, आयाणमेयं अणभिग्गहिअसिज्जासणियस्स अणुच्चाकुइअस्स अट्ठावधि अस्स अमिआसणिअस्स अणाताविअस्स असमियस्स अभिक्खणं अभिक्खणं अपडिलेहणासीलस्स अपमज्जणासीलस्स तहा तहा णं संजमे दुराराहए भवइ ॥ ५३ ॥
व्याख्या—अणभिग्गहिअ इत्यादि अनभिगृहीतशय्यासन एवाऽनभिगृहितशय्याशनिकः स्वार्थे इकतथाविधेन भवितुं न कल्पते, न युक्तं वर्षासु यतिना मणिकुट्टिमेऽपि पाठफलकाभिग्रहवतैव भाव्यमित्यर्थः, अन्यथा शीतलभूमौ शयने कुन्ध्वादिविराधनाऽजीर्णादिदोषाश्चस्युः, आसने च कुथ्वादिसंघट्टनिषद्यामालिन्याऽकायविराधनादयः, आयाणमेअं ति कर्म्मणां दोषाणां वा आदानं-उपादानकारणं एतद्नभिगृहीतशय्यासनिकत्वं, अथवाऽभिग्रहो निश्चयः स्वगृहीतमेव शय्यासनं मया भोक्तव्यं नान्यपरिगृहीतमिति, आदानत्वमेव हृदयति अणभिग्गहिअ इत्यादि प्राग्वत् । अनुच्चाकुचिकस्य ' कुच परिस्पन्दे' अकुचा - ऽपरिस्पन्दा निश्चला यस्याः कम्बिका न चलन्ति, अदृढबन्धने हि सङ्घर्षान्मत्कुणकुन्ध्वादिवधः स्यात्, उच्चा हस्तादि यावत् येन पिपीलिकादिवधो न स्यात् सर्पादि च न दशेत्, उच्चा चासौ अकुचाच उच्चाकुचा कम्बादिमयी शय्या साऽस्ति यस्याऽसावुच्चाकुचिकः, न उच्चाकुचिकोऽनुच्चाकुचिकः - नीचसपरिस्पन्दशय्याकस्तस्य अनर्थबन्धिनः- पक्षमध्येऽनर्थकं निःप्रयोजनं एकवा

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378