Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay

View full book text
Previous | Next

Page 329
________________ तदनङ्गीकारः सुतरां सिद्ध एव, अतएवाऽस्तामन्योऽभिवड़ितो भाद्रपदधृनौ प्रथमभाद्रपदोऽपि पर्युपणाकृत्येषु अनधिकृत एव अभिवतिप्रथमतिथिरिव तदीयकृत्येष्विति । तथाहि-विवक्षितं हि पाक्षिकप्रतिक्रमणं तच चतुर्दश्यां नियतं सा च यद्यपि वर्द्धिता तदा प्रथमां परित्यज्य द्वितीयाऽङ्गीकार्या दिन | गणनायां त्वस्याः अन्यासां च वृद्वौ सम्भवन्तोऽपि षोडश दिनाः पञ्चदशैव गण्यन्ते । एवं क्षीणायामपि चतुर्दश्यादितिथौ पञ्चदशैवेति बोध्यं । तद्ववाऽपि विवक्षितं सांवत्सरिकप्रतिक्रमणादिकृत्यं तच्च नियतं भाद्रपदे स च यद्यपि व ते तदा प्रथमं परित्यज्य द्वितीयोऽधिक्रियते दिनगणनायां त्वस्याऽन्यस्य वाम मासस्य वृद्धौ सम्भवन्तोप्यशितिदिनाः पश्चाशदेव गण्यन्ते यथा तवाऽप्यभिमता पञ्चमास्यपि चउभासीति। तथा सहकारादयोऽचेतना प्रशस्तवनस्पतयोऽप्यधिकमासे प्रथममासं परित्यज्य द्वितीयमासे पुष्पफलादिकं प्रयच्छन्ति, यदुक्तम् आवश्यकनियुक्तो-"जइ फुल्ला कणिआरया, चूअग अहिमासयंमि घुटमि । तह न खमं फुल्लेउ, जइ पच्चंता करिति डमराई ॥१॥। तेन व्यवस्थितमिदं येन गच्छावणादि। मासो नियतपर्युषणापर्वादिकृत्येध्वनाधिकारी किन्तु भाद्रपदादिरेवेति, न च पर्युषगापर्वणो भाद्रपदमासनैयत्यवत् पञ्चमीदिननियतत्वमपि चूयादिषु दृश्यते तत्कथं चतुर्थ्या क्रियते इति शनीयम् युगबधानश्रीकालकसूरेः पूर्व पञ्चम्येव इदानीं तु 'अन्तरा वि असे कप्पइ' इत्यागमानुसारेण तेन प्रवर्तिता सकलसङ्घ सम्नना च चतुर्येव संवत्सरपर्वाऽधिकारिणीति स्थिता। यत्तु कश्चित् 'अभिवडिअंमि वीसाइअरेसु सवीसइमासो'त्ति अक्षरबलेन विंशत्या दिनाचादिपञ्चकृत्यविशिष्टं पर्युषणापर्व करोति तदप्यत्यन्ता

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378