Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay
View full book text
________________
कल्प
दीपिका
१६ ॥
पंचविहे पन्नत्ते तं॰ जहा उस्सा १, हिमए २, महिआ ३, करए ४, हरतणुए ५, जे निग्र्गयेण छउमत्थेणं वा जाव पडिलेहि भवइ, से तं सिणेहसुडुमे ८ ॥ ४५ ॥
व्याख्या - उदउल्लेणेत्यादि उदकार्द्रेण-गलद्विन्दुयुक्तेन सस्निग्धेन-ईषदुदकयुक्तेन ॥४२॥ से किमाहु भंते! स भगवान् तीर्थंकरः किमाहाऽत्र कारणं गुरुराह-सत्तेत्यादि सप्त स्नेहायतनानि - जलावस्थानानि येषु जलं चिरेण शुष्यति, तद्यथा पाणी - हस्तौ, पाणिरेखा - आयूरेखादयः तासु चिरमुदकं तिष्ठति, नखा-अखण्डाः, नखशिखाः - तदग्रभागाः, भ्रूः नेत्रोर्ध्वरोमणि, अहरुट्ठा दाढिका, उत्तरुट्ठा श्मश्रूणि, विगतोदको - बिन्दुरहितः छिन्नस्नेहः - सर्वथा उद्वानः ॥ ४३ ॥ अट्ठ सुहुमाई इत्यादि, सूक्ष्मत्वादल्पाधारत्वाच्च सूक्ष्माणि अभीक्ष्णं अभीक्ष्णं पुनः पुनर्यत्र यत्र स्थाननिषीदनादि करोति तत्र तत्र ज्ञातव्यानि सूत्रोपदेशेनेति द्रष्टव्यानि चक्षुषा, दृष्ट्वा प्रतिलिखितव्यानि परिहर्त्तव्यतया विचारणीयानि तमिति तद्यथा ॥ प्राणसूक्ष्मं पञ्चविधं प्रज्ञप्तं तीर्थंकरगणधरैः, एकस्मिन् वर्णे सहस्रशो भेदा बहुप्रकाराश्च संयोगाः ते सर्वेऽपि पञ्चसु कृष्णादिष्वव तरन्ति । प्राणसूक्ष्मं तु द्वीन्द्रियादयः प्राणा यथा-ऽनुद्धरी कुन्थुः स हि चलन्नेव विभाव्यते न स्थितः सूक्ष्मत्वात् ॥ १ ॥ पनकः-उल्लीः स च प्रायः प्रावृषि भूकाष्टादिषु जायते, यत्रोत्पद्यते तद्र व्यसमवर्णश्च, नामं पन्नत्ते इत्यत्र नामेति प्रसिद्धौ ॥२॥ बीज सूक्ष्मं कणिका - शाल्यादिबीजानां मुखमूले नहीति रूढा नखिका ॥ ३ ॥ हरितसूक्ष्मं नवोद्भिन्नं पृथिवीसमवर्ण हरितं तचाल्पसंहननत्वात् स्ताकेनाऽपि विन
समाचारी
॥ १६ ॥

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378