Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Vinayvijay, Mafatlal Zaverchand Gandhi
Publisher: Yashovijay Pustakalay

View full book text
Previous | Next

Page 333
________________ एरावई कुणालाए, जत्थ चकिआ सिआ, एगं पायं जले किच्चा, एगं पायं थले किच्चा, एवं चकिआ एवन्हें कप्पइ सव्वओ समंता सकोसं जोयणं गंतुं पडिनियत्तए ॥ १२ ॥ व्याख्या-एरावई त्ति, एरावती नाम नदी कुणालापुर्या विक्रोशं सदा वहति, तादृशी नदी तु लंघयितुं कल्पते स्तोकजलत्वात् , ' जत्थ चक्किम 'त्ति यत्र शक्नुयात् सिआ इति यदि एक पादं जले जलमध्ये निक्षिप्य एकं च पादं स्थले-आकाशे कृत्वा द्वाभ्यां पादाभ्यामविलोडयन् गन्तुं शक्नुयात् तदा तत्परतः | स्थिते ग्रामादौ भिक्षाचर्या कल्पते नान्यथा ॥ १२ ॥ एवं च नो चकिआ एवं से नो कप्पइ सवओ समंता सकोसं जोयणं गंतुं पडिनिअत्तए ॥१३॥ ___व्याख्या एवं चेत्यादि, एवं च यत्र न शक्नुयात् गत्वा प्रत्यागन्तुं तत्र न गच्छेत् । यत्र हि जङ्घार्ध यावदुदकं स दकसङ्घः, नाभिं यावल्लेपः तत्परतस्तु लेपोपरि, ततः ऋतुबद्ध काले भिक्षाचर्यायां| यत्र त्रयो दकसङ्घद्याः वर्षासु च सप्त भवेयुस्तत्क्षेत्रं नोपहन्यते चतुराद्यैरष्टाद्यैश्चः तैरुपहन्यते, ते च ऋतुबद्धे गतागते न षट्वर्षासु चतुर्दश, लेपश्चैकोऽपि क्षेत्रं हन्ति, लेपोपरि तु किं वाच्यं,[यदि चतुरो मासान् एकवित्र्यादिदिनान् वा उपोषितः स्थातुमशक्तः तदा जघन्यतोऽपि पूर्व क्रियमाणनमस्कारसहितादेः पौरुष्यादितपोवृद्धिं कुर्यादिति] ॥ १३ ॥

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378