________________
एरावई कुणालाए, जत्थ चकिआ सिआ, एगं पायं जले किच्चा, एगं पायं थले किच्चा, एवं चकिआ एवन्हें कप्पइ सव्वओ समंता सकोसं जोयणं गंतुं पडिनियत्तए ॥ १२ ॥
व्याख्या-एरावई त्ति, एरावती नाम नदी कुणालापुर्या विक्रोशं सदा वहति, तादृशी नदी तु लंघयितुं कल्पते स्तोकजलत्वात् , ' जत्थ चक्किम 'त्ति यत्र शक्नुयात् सिआ इति यदि एक पादं जले जलमध्ये निक्षिप्य एकं च पादं स्थले-आकाशे कृत्वा द्वाभ्यां पादाभ्यामविलोडयन् गन्तुं शक्नुयात् तदा तत्परतः | स्थिते ग्रामादौ भिक्षाचर्या कल्पते नान्यथा ॥ १२ ॥
एवं च नो चकिआ एवं से नो कप्पइ सवओ समंता सकोसं जोयणं गंतुं पडिनिअत्तए ॥१३॥ ___व्याख्या एवं चेत्यादि, एवं च यत्र न शक्नुयात् गत्वा प्रत्यागन्तुं तत्र न गच्छेत् । यत्र हि जङ्घार्ध यावदुदकं स दकसङ्घः, नाभिं यावल्लेपः तत्परतस्तु लेपोपरि, ततः ऋतुबद्ध काले भिक्षाचर्यायां| यत्र त्रयो दकसङ्घद्याः वर्षासु च सप्त भवेयुस्तत्क्षेत्रं नोपहन्यते चतुराद्यैरष्टाद्यैश्चः तैरुपहन्यते, ते च ऋतुबद्धे गतागते न षट्वर्षासु चतुर्दश, लेपश्चैकोऽपि क्षेत्रं हन्ति, लेपोपरि तु किं वाच्यं,[यदि चतुरो मासान् एकवित्र्यादिदिनान् वा उपोषितः स्थातुमशक्तः तदा जघन्यतोऽपि पूर्व क्रियमाणनमस्कारसहितादेः पौरुष्यादितपोवृद्धिं कुर्यादिति] ॥ १३ ॥